अध्यायः 077

विराटेनार्जुनंप्रति स्वकुमार्या उत्तराया भार्यात्वेन प्रतिग्रहणप्रार्थने तंप्रत्यर्जुनेन सहेतुकथनं स्नुपात्वेन परिग्रहाङ्गीकरणम् ॥ 1 ॥ दुर्योधनेन युधिष्ठिरंप्रति दूतमुखेन त्रयोदशवत्सरस्यासंपूर्तावेवार्जुनेनात्मप्रकाशनात्पुनर्वनवासविधेयतानिवेदनम् ॥ 2 ॥ युधिष्ठिरेण तंप्रति तेनैव दूतेन भीष्ममुखात्संदेहस्य परिहरणीयताप्रतिवेदनम् ॥ 3 ॥ भीष्मेण विचार्य निर्धारणपूर्वकं संकेतकालस्य पूर्णत्वोक्तिः ॥ 4 ॥

विराट उवाच ।
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर । इदं सनगरं राष्ट्रं सजनं सवधूजनम् ।
युष्यभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च ॥
अहं वद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम् ।
राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम् ॥
उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः ।
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः ॥
वैशंपायन उवाच ।
एवमुक्तो धर्मराजः पार्थपैक्षद्वनंजयम् ।
ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत् ॥
वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे ।
किंतु दुर्योधनादीनां राज्ञां राज्यं गृहामहे ॥
प्रतिगृह्णाम्यहं राजन्स्रुषं दुहितरं तव ।
युक्तो ह्यावां हि संबन्धो मात्स्यभारतवंशयोः ॥
विराट उवाच ।
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम ।
प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि ॥
अर्जुन उवाच ।
अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव ।
सहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥
प्रियो बहुमतश्चाहं नर्तने गीतवादिते ।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥
वयस्यया तया राजन्सह संवत्सरोषितः ।
अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो ॥
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशांपते ।
सुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया ॥
स्नुषायां दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।
अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥
अभिषङ्गादहं भीतो मिथ्याचारात्परंतप ।
स्रुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥
स्वस्त्रीयो वासुदेवस्य साक्षाद्देवसुतो यथा ।
दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः ॥
अभिमन्युर्गहाबाहुः पुत्रो मम विशांपते ।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव ॥
विराट उवाच ।
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये ।
सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः ॥
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् ।
सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः ॥
वैशंपायन उवाच ।
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः ।
अन्वजानत संबन्धं समये कृष्णमात्स्ययोः ॥
दूतान्सर्वेषु मित्रेषु वासुदेवे च भारत । प्रेषयामास कौन्तेयो विराटश्च महीपतिः ।
प्रतिगृह्य स्नुषार्थं वै दर्शयन्व्रतमात्मनः ।
शीलशौचसमाचारं लोकस्यावेद्य फल्गुनः ॥
लोके विख्याप्य माहात्म्यं यशश्च स परंतपः ।
कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत्तदा ॥
युधिष्ठिर उवाच ।
राजन्प्रीतोस्मि भद्रं ते सखा मेऽसि परन्तप ।
सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव ॥
वैशंपायन उवाच ।
विराटनगरे राजा धर्मात्मा संशितव्रतः ।
पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोर्चितः ॥
तथा ब्रुवन्तं प्रसमीक्ष्य राजा परं प्रहृष्टः स्वजनेन तेन ।
स्नेहात्परिष्वज्य नृपो भुजाभ्यां ददौ महार्थं कुरुपाण्डवानाम् ॥
युद्धात्प्रयाताः कुरवो हि मार्गे समेत्य सर्वे हितमेव तत्र ।
आचार्यपुत्रः शकुनिश्च राजा दुर्योधनः सूतपुत्रश्च कर्णः । संमन्त्र्य राजन्सहिताः समर्थाः समादिशन्दूतमथो समग्राः ॥
युधिष्ठिरश्चापि सुसंग्रहृष्टो दुर्योधनाद्दूतमपश्यदागतम् ।
स चाब्रवीद्धर्मराजं समेत्य युधिष्ठिरं पाण्डवमुग्रवीर्यम् ॥
धनञ्जयेनासि पुनर्वनाय प्रव्राजितः समये तिष्ठ पार्थः ।
त्रयोदशे ह्येव किरीटमाली संवत्सरे पाण्डवेयोऽद्य दृष्टः ॥
वैशंपायन उवाच ।
ततोऽब्रवीद्धर्मसुतः प्रहस्य क्षिप्रं गत्वा ब्रूहि सुयोधनं तम् ।
पितामहः शान्तनवो ब्रवीतु पूर्णो न पूर्णोऽद्य त्रयोदशो नः ॥
संवत्सरात्ते तु धनञ्जयेन विष्फारितं गाण्डिवमाजिमध्ये ।
पूर्णो न पूर्णो न इति ब्रवीतु यदस्य सत्यं मम तत्प्रमाणम् ॥
तेनैवमुक्तः स निवृत्य दूतो दुर्योधनं प्राप्य शशंस तत्त्वम् ॥
समेत्य दूतेन स राजपुत्रो दुर्योधनो मन्त्रयामास तत्र ।
भीष्मेण कर्णेन कृपेण चैव द्रोणेन भूरिश्रवसा च सार्धम् ॥
संमन्त्र्य रात्रौ बहुभिः सुहृद्भि- र्भीष्मोऽब्रवीद्धार्तराष्ट्रं महात्मा ।
तीर्णप्रतिज्ञेन धनंजयेन विष्फारितं गाण्डिवमाजिमध्ये ॥
वैशंपायन उवाच ।
नेच्छन्त्यसत्येन सुरेन्द्रलोकं पाण्डोः सुता ब्रह्मणश्चापि लोकम् ।
तथ्यं च ते पथ्यमहं ब्रवीमि स्वर्ग्यं यशस्यं परलोकपथ्यम् ॥
कुन्तीसुतैस्त्वं समुपैहि सन्धिं भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः ।
युध्यस्व नोचेत्स्थिरबुद्धिराजौ कुन्तीसुतैर्यद्यपि राज्यमिच्छेः ॥
आन्तं न शक्यं कपटेन भोक्तुं राज्यं परेषां महतां बलीनाम् ।
जित्वा शत्रून्भुङ्क्ष्व राज्यं समग्रं हतो भवान्भोक्ष्यति वज्रिलोकम् ॥
वैशंपायन उवाच ।
ततः स भागीरथिसूनुवाक्यं निशम्य गान्धारितनूद्भवो नृपः ।
उवाच भीष्मं प्रमुखे च पित्रो- र्महीं न दद्यामणुमात्रिकामपि । निहन्मि पाण्डूदरसंभवान्वा हतोस्मि तैर्वा सुरलोकमेमि ॥
ते धार्तराष्ट्राः समयं निशम्य तीर्णप्रतिज्ञस्य धनंजयस्य
संचिन्त्य सर्वे सहिताः सुहृद्भिः सपार्थिवाः स्वानि गृहाणि जग्मुः ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि सप्तसप्ततितमोऽध्यायः ॥

4-77-6 आवां आवयोः ॥ 6 ॥