अध्यायः 078

अज्ञातवासपरिसमापनानन्तरमुपप्लाव्यनगरे वसद्भिः पाण्डवैर्दूतमुखेन समाहूतै रामकृष्णादिभिः सुभद्राभिमन्युप्रभृतिभिः सहोपप्लाव्यं प्रत्यागमनम् ॥ 1 ॥ तथा द्रौपदेयादिभिः सह द्रुपदादिभिरागमनम् ॥ 2 ॥ तत उत्तरयाऽभिमन्योरुद्वाहः ॥ 3 ॥

वैशंपायन उवाच ।
ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ।
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे ॥
दूतान्मित्रेषु सर्वेषु ज्ञातिसंबन्धिकेष्वपि ।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः ॥
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः ।
तत्रागमन्महाबाहुर्वनमाली बलानुजः ॥
तस्मिन्काले निशम्याथ दूतवाक्यं जनार्दनः । दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम् ।
अभिमन्युं समादाय रामेण सहितस्तदा ॥
सर्वयादवमुख्यैश्च संवृतः परवीरहा ।
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ ॥
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः । अनाधृष्टिस्तथाऽक्रूरः सांबो निशठ एव च ।
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः ॥
अभिमन्युमुपादाय सह मात्रा परन्तपाः ।
कृष्णेन सहिताः सर्वे पाण्डवान्द्रष्टुमागताः ॥
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः ।
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः ॥
दशनागसहस्राणि हयानां द्विगुणं तथा ।
रथानां नियुतं पूर्णं निखर्वं च पदातयः ॥
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः ।
अन्युर्वृष्णिशार्दूलं वासुदेवं महाबलम् ॥
वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा ।
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम् ॥
शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम् । ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः ।
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः ॥
पाण्डवा ऊचुः ।
तव कृष्ण प्रसादाद्वै वर्षाण्येतानि सर्वशः ।
त्रयोदशोपि दाशार्ह यथा स समयः कृतः ॥
उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन ।
रक्षस्व देवदेवेश त्वामार्य शरणं गताः ॥
वैशंपायन उवाच ।
तान्वन्दूमानान्सहसा परिष्वज्य जनार्दनः ।
विराटस्य सहायांस्तान्सर्वयादवसंवृतः ॥
यथार्हं पूजयामास मुदा परमया युतः ।
वृष्णिवीराश्च तान्सर्वान्यथार्हं प्रतिपेदिरे ॥
कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा । तामुद्यम्य सुकेशान्तां नयने परिमृज्य च ।
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ ॥
मा शोकं कुरु कल्याणि धार्तराष्ट्रान्समाहितान् ।
अचिराद्धातयित्वाऽहं पार्थेन सहितः क्षितिम् ॥
युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः ।
अभिमन्युना च पार्थेनरौक्मिणेयेन ते शपे ॥
सत्यमेतद्वचो मह्यमवैहि त्वमनिन्दिते । इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम् ।
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा ॥
काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम् ।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती ॥
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः ।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः ॥
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतांवरः ।
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः ॥
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च ।
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम् ॥
समुद्रमिव धर्मान्ते स्रोतःश्रेष्ठाः पृथक्पृथक् । आपूरयन्महीपाला यज्वानो भूरिदक्षिणैः ।
वेदावभृथसंपन्नाः शूराः सर्वे तनुत्यजः ॥
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः ।
पूजयामास विधिवद्यथार्हं राजसत्तमान् ॥
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् ।
स्त्रियो वासांसि रत्नानि पृथक्पृथगनेकशः ॥
राजानो राजपुत्राश्च निवृत्ते समये तथा । यथांर्ह पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः ।
आसन्प्रहृष्टमनसः पारिबर्हं ददुस्तदा ॥
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह ।
विवाहो विधवद्राजन्ववृधे कुरुमात्स्ययोः ॥
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा ।
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि ॥
उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा ।
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन् ॥
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा ।
स्तुवन्तस्तानुपातिष्ठन्सूताश्च सह मागधैः ॥
स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले ।
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः ॥
सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः ।
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः ॥
वर्णोपपन्नास्ता नार्यो रूपवन्तयः स्वलंकृताः ।
सर्वासामभवत्कृष्णा रूपेण वपुषाऽधिका ॥
परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलंकृताम् ।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥
भृङ्गारुं तु समादाय सौवर्णं जलपूरितम् । पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम् ।
स्नुषार्थं प्राक्षिपद्वारि विराटो वाहिनीपतिः ॥
तां प्रत्यगृह्णाकौन्तेयः सुतस्यार्थे महामनाः ।
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा ॥
तत्रातिष्ठद्गृहीत्वा तु रूपमिन्द्रास्य धारयन् ।
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः ॥
द्रुपदश्च विराटश्च शिखण्डी च महाबलः ।
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः ॥
सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा ॥
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतांवरः ।
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे ॥
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम् ।
विवाहं कारयामास सौभद्रस्य महात्मनः ॥
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः ।
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा ॥
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः ।
अग्निं प्रदक्षिणीकुर्वन्सौभद्रः पाणिमग्रहीत् ॥
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत् ।
तस्मै शतसहस्राणि हयानां वातरंहसाम् ॥
द्वे च नागशते मुख्ये धनं बहुविधं तदा ।
प्रादान्मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम् ॥
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः ।
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात्प्रभूतवत् ॥
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः ।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च ।
भूषणानि च सर्वाणि यानानि शयनानि च ॥
नागरान्प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः ॥
तन्महोत्सवसंकाशं हृष्टपुष्टजनाकुलम् ।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥
पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह । विराटो नृपतिः श्रीमान्सौभद्रायाभिमन्यवे ।
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा ॥
जनमेजय उवाच ।
वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः ।
तत्सर्वं कथयस्वेह कृतवन्तो यदुत्तरम् ॥ ॥

इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां विराटपर्वणि वैवाहिकपर्वणि अष्टसप्ततितमोऽध्यायः ॥ ॥ वैवाहिकपर्व समाप्तम् ॥ 5 ॥ ॥ समाप्तं च विराटपर्व ॥ 4 ॥

अतः परमुद्योगपर्व भविष्यति । तस्यायमाद्यः श्लोकः । कृत्वा विवाहं तु कुरुप्रवीरा । स्तदाऽभिमन्योर्मुदिताः सपक्षाः । विश्रम्य रात्रावुषसि प्रतीताः । सभां विराटस्य ततोऽभिजग्मुः ॥ इदं विराटपर्व कुंभघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1831 सन 1909.