अध्यायः 005

पाण्डवैरिन्द्रसेनादीन्प्रति द्वारकादिगमनचोदना ॥ 1 ॥ पाण्डवान्प्रति धौम्येन राजगृहवासप्रकारानुशासनम् ॥ 2 ॥

युधिष्टिर उवाच ।
कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ ।
मम चापि यथा बुद्धिरुचिता हि विनिश्चयात् ॥
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु ।
सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका ।
पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह ॥
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः । अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि ।
गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति ॥
वैशंपायन उवाच ।
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक् ।
धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत् ॥
तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् ।
धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान् ॥
धौम्य उवाच ।
विदितं वै यथा सर्वं लोके वृत्तमिदं नृप ।
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ॥
अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत । हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः ।
यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति ॥
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि ।
अमानितेन मानार्ह गूढेन परिवत्सरम् ॥
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत् ।
न चानुशिष्याद्राजानमपृच्छन्तं कदाचन ॥
तूष्णीं त्वेनमुपासीत काले समभिपूजयेत् ॥
असूयन्ति हि राजानो जनाननृतवादिनः ।
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि ।
एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित् ॥
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान ।
भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः ॥
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् ।
राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत ॥
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ॥
एतत्रयं च पुरुषं निर्दहेदवमानितम् ।
राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः ॥
नातिवर्तेत मर्यादां पुरुषो राजसंमतः ।
व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः ॥
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम ।
समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः ॥
गच्छन्नपि परां भूतिं भूमिपालनियोजितः ।
जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन् ॥
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् ।
तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः ॥
यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः ।
तदासनं राजकुले ईप्सेत पुरुषो वसन् ॥
यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् ।
न तत्रोपविशेज्जातु यो राजवसतिं वसेत् ॥
स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ ।
न त्वेवासनमन्यस्य प्रार्थयेत कदाचन ॥
परासनगतं ह्येनं परस्य परिचारकाः ।
परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः ॥
नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् ।
अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते ॥
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः । तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः ।
राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते ॥
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः ।
संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत् ॥
पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत् ।
नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान् ॥
नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा ।
आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत् ॥
यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् ।
उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान् ॥
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् ।
दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत् ॥
अन्येषु प्रेष्यमाणेषु पुरस्ताद्धीर उत्पतेत् ।
करिष्याम्यहमित्येव यः स राजसु सिध्यति ॥
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा ।
आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति ॥
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः । मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः ।
ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति ॥
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः ।
समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत् ॥
अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा ।
दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत् ॥
इतिहासपुराणज्ञः कुशलः सत्कथासु च ।
वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत् ॥
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् ।
यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम् ॥
नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत् ।
प्राप्नुयादाददानो वा बन्धं वा वधमेव वा ॥
हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः ।
अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति ॥
श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि ।
पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम् ॥
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन ।
रक्षणं तु न सेवेत यो राजवसतिं वसेत् ॥
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् ।
बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः ॥
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः ।
जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः ॥
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित् ।
नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ॥ 47 ॥
हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् ।
तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः ॥
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः ।
वर्तमानं यथावच्च कुत्सयेयुरसंशयम् ॥
तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च ।
नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः ॥
यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम् ।
एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत् ॥
या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम् ।
उभयेषां समस्तानां शृणु राजोपजीविनाम् ॥
न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा ।
अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम् ॥
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत् ।
अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः ॥
अराजानं हि रत्नानि राजकान्तानि राजवत् ।
भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम् ॥
तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता ।
तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत् ॥
न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् ।
अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत् ॥
एतां हि सेवमानस्य नरसीमां चतुर्विधाम् ।
द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः ॥
एतैस्तु विपरीता या नरसीमा नराधमैः ।
तथा कुर्वीत संसर्गं न विरोधं कथंचन ॥
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः ।
साधु मन्येत संसर्गं न विरोधं कथंचन ॥
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः ।
प्रथमं छिद्यते मूलं द्वितीयं जायते भयम् ॥
उद्धतानां च यो वेषः कुहकानां च यो भवेत् । राजवेषं च विस्पष्टं सेवमानो न वर्धते ।
इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः ॥
अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः ।
शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित् ॥
प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः ।
श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः ॥
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव ।
तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित् ॥
न चान्याचरितां भूमिमसंदिष्टो महीपतेः ।
उपसेवेत मेधावी यो राजवसतिं वसेत् ॥
न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् ।
अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥
अर्थकामा च या नारी राजानं स्यादुपस्थिता ।
अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः ॥
तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः ।
तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः ॥
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता ।
स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम् ॥
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत् ।
न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत् ॥
भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम् ।
न च गाढं विजृम्भेत जातु राज्ञः समीपतः ॥
न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च ।
स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः ॥
अथ संदृश्यमानेषु प्रियेषु च हितेषु च ।
श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा ॥
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत् ।
पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत् ॥
अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा ।
उत्थानेन तु मेधावी शौचेन विविधेन च ॥
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते ।
असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते ॥
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः ।
य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥
तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः ।
मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम् ॥
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।
वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम् ॥
एष वः समुदाचारः समुद्दिष्टो यथाविधि ।
यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः ॥
संवत्सरमिमं तावदेवंशीला बुभूषथः ।
ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥
वैशंपायन उवाच ।
तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम् ।
प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः ॥
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत् ।
भवाय राज्यलाभाय वीर्याय विजयाय च ॥
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च ।
स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च ॥
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान् ।
इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता ।
युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

4-5-15 पाण्डवाग्निरिति पाण्डवेति छेदः । राजा पुरुषविग्रहोऽग्निरित्यन्वयः ॥ 15 ॥ 4-5-61 प्रथमं छिद्यते निद्रा इति थo धo पाठः ॥ 61 ॥