अध्यायः 007

पाण्डवैर्वनमध्ये श्मशानसंनिहिते शमीवृक्षे स्वायुधनिक्षेपः ॥ 1 ॥ तथा स्वेषां साङ्केतिकनामकल्पनेन विराटनगरपरिसरगमनम् ॥ 2 ॥

वैशंपायन उवाच ।
स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत् । इमानि पुरुषव्याघ्र आयुधानि परंतप ।
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ॥ 1 ॥
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि ।
समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥ 2 ॥
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम् ।
कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ॥ 3 ॥
यदीद.. धनुरादाय चरेम सजने पुरे ।
क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ॥ 4 ॥
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च ।
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ॥ 5 ॥
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा ।
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ॥ 6 ॥
वैशंपायन उवाच ।
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः ।
उवाच धर्मपुत्रं तमर्जुनः परवीरहा ॥ 7 ॥
इयं वने मनुष्येन्द्र महती दृश्यते शमी ।
भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥ 8 ॥
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते ।
विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ॥ 9 ॥
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ॥ 10 ॥
समीपे च श्मशानस्य गृहं नास्य विशेषतः ।
समासज्यायुधान्यस्यां गच्छामो नगरं नृप ॥ 11 ॥
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ॥ 12 ॥
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम् । उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् ।
अस्यामायुधमासज्य गच्छाम नगरं वयम् ॥ 13 ॥
एवं परिहरिष्यन्ति मनुष्या वनचारिणः ।
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ॥ 14 ॥
वैशंपायन उवाच ।
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः ।
प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ॥ 15 ॥
तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः ।
आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ॥ 16 ॥
ततो युधिष्ठिरो राजा सहदेवमुवाच ह ।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 17 ॥
इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् ।
अब्रवीदायुधानीह निधातुं भरतर्षभः ॥ 18 ॥
वैशंपायन उवाच ।
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् । निवातकवचांश्चापि पौलोमांश्च परंतपः ।
कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ॥ 19 ॥
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः । तदुदग्रं महाघोरं सपत्नगणमूदनम् ।
अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् ॥ 20 ॥
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः ।
जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ॥ 21 ॥
धर्मपुत्रो महातेजाः सर्वलोकवशंकरम् ।
भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ॥ 22 ॥
वित्रासनं दानवानां राक्षसानां च नित्यशः ।
धनूरत्नं महातेजा जृम्भयामास पाण्डवः ॥ 23 ॥
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा ।
प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ॥ 24 ॥
निशम्य यस्य विष्कारं विद्रवन्ति रणे परे ।
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥ 25 ॥
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् ।
येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ॥ 26 ॥
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः ।
त्रिगर्तान्येन संग्रामे जित्वा त्रैगर्तमानयत् ॥ 27 ॥
इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् ।
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥ 28 ॥
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः ।
उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ॥ 29 ॥
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् ।
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ॥ 30 ॥
तवानुरूपं सुकृतं चापमेतदलङ्कृतम् ।
तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 31 ॥
वैशंपायन उवाच ।
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः ।
माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ॥ 32 ॥
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि ।
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥ 33 ॥
सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत् ।
कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ॥ 34 ॥
येनैव शत्रून्समरे अधाक्षीररिमर्दन ।
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ॥ 35 ॥
वैशंपायन उवाच ।
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः ।
अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥ 36 ॥
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् । विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि ।
आयुधानि कलापांश्च गदाश्च निदधुः सह ॥ 37 ॥
अथाब्रवीद्धर्मराजः सहदेवं परन्तपः ।
आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ॥ 38 ॥
इदं गोमृगमभ्याशे गतसत्वमचेतनम् ।
एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय ॥ 39 ॥
एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् ।
शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् ॥ 40 ॥
शीतवातातपभयाद्वर्पत्राणाय दुर्जयः । तानि वीरो यथा जानन्निरावाधानि सर्वशः ।
पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ॥ 41 ॥
यत्र चापश्यत स वै तिरोवर्पाणि वर्पति ।
तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ॥ 42 ॥
ततः परमदूरस्थमुञ्छवृत्तिकलेवरम् ।
प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ॥ 43 ॥
तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः ।
उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ॥ 44 ॥
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः ।
दूरात्परिहरिष्यन्ति सशवेयं शमी इति ॥ 45 ॥
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः ।
रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ॥ 46 ॥
यानि चात्र विशालानि रूढमूलानि मन्यसे ।
तेपामुपरि बध्नीहि इदं विप्रकलवरम् ॥ 47 ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ॥ 48 ॥
युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च ।
ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ॥ 49 ॥
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च । पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा ।
वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ॥ 50 ॥
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि ।
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् ॥ 51 ॥
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै ।
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ॥ 52 ॥
एष न्यासो मया दत्तः सोममूर्यानिलान्तिके ।
मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ॥ 53 ॥
नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः । आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति ।
अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः ॥ 54 ॥
पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा ।
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ॥ 55 ॥
एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः ।
मदायत्तमिदं सर्वं जीवितं च न संशयः ॥ 56 ॥
वैशंपायन उवाच ।
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम् ।
नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ॥ 57 ॥
आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप ।
आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ॥ 58 ॥
अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके । बहुकालपरीणामा मृत्योस्तु वशमेयुपी ।
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ॥ 59 ॥
यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया ।
तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ॥ 60 ॥
विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् ।
स्वर्गतेयमिहास्माकं जननी शोकविह्वला ॥ 61 ॥
वने विचरमाणानां लुब्धानां वनचारिणाम् ।
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ॥ 62 ॥
एवं ते सुकृतं कृत्वा समन्तादवघुष्य च ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ॥ 63 ॥
युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा ।
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ॥ 64 ॥
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा ।
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ॥ 65 ॥
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः । जयो जयेशो विजयो जयत्सेनो जयद्बलः ।
आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ॥ 66 ॥ ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत् ।
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥ 67 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि सप्तमोऽध्यायः ॥ 7 ॥