अध्यायः 009
युधिष्ठिरेण यतिवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ प्रत्युत्थानादिना सत्कृतेन युधिष्ठिरेण विराटभवने निवासः ॥ 2 ॥
वैशंपायन उवाच ।
ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम् ।
त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितृनतपर्यन् ॥ 1 ॥
वरप्रदानं ह्यनुचिन्त्य पार्थिवे हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः ।
दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः ॥ 2 ॥
युधिष्ठिर उवाच ।
वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः ।
जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् ॥ 3 ॥
निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः ।
मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः ॥ 4 ॥
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात् ।
वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् ॥ 5 ॥
स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत् ।
इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः ॥ 6 ॥
क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च ।
वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् ॥ 7 ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन् ।
तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ॥ 8 ॥
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत ।
सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ॥ 9 ॥
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः ।
क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ॥ 10 ॥
नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान् ।
निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ॥ 11 ॥
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम् ।
अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ॥ 12 ॥
सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः ।
उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ॥ 13 ॥
गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् ।
सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् ।
विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे ॥ 14 ॥
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा ।
पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा ॥ 15 ॥
विराट उवाच ।
को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम् ।
रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ॥ 16 ॥
मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा ।
विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ॥ 17 ॥
न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् ।
न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः ॥ 38 ॥
क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः ।
अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः ॥ 19 ॥
विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति ।
ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ॥ 20 ॥
नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति ।
तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य ॥ 21 ॥
यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् ।
प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि ॥ 22 ॥
धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः ॥ 23 ॥
वैशंपायन उवाच ।
एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः ।
अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ॥ 24 ॥
समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका ।
सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् ॥ 25 ॥
स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः ।
जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ॥ 26 ॥
तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः ।
प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज ॥ 27 ॥
श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते ।
सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः ॥ 28 ॥
यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् ।
अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ॥ 29 ॥
सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् ।
कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ॥ 30 ॥
वैशंपायन उवाच ।
एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् ।
सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव ॥ 31 ॥
श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च ।
गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् ॥ 32 ॥
द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् ।
इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ॥ 33 ॥
ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथा श्रुतिः ।
मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः ॥ 34 ॥
कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा ।
द्यूतप्रसङ्गादधनोऽस्मि राजन्सत्यप्रतिज्ञा व्रतिनश्चरामः ॥ 35 ॥
युधिष्ठिरस्यापि सखाऽभवं पुरा गृहप्रवेशी च शरीरमेव च ।
गृहे च तस्योपितवानहं सुखं राजाऽस्मि तस्य स्वपुरेऽभवं पुरा ॥ 36 ॥
ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः ।
मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा ॥ 37 ॥
सोहं पुरा तस्य वयस्समः सखा चरामि सर्वां वसुधां सुदुःखितः ।
न तु प्रशान्तिं क्वचिदाप्तवानहं व्रतोपदेशान्नियमेन भारिकः ॥ 38 ॥
वैयाघ्रपद्योस्मि नरेन्द्र गोत्रतस्तदेव सौख्यं मृगयामहे वयम् ।
कृतज्ञभावेन मयाऽनुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् ॥ 39 ॥
इमं हि मोक्षाश्रममास्थितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि ।
न मेऽस्ति माता न पिता न बान्धवा न मेऽस्ति रूपं न रतिर्न सन्ततिः ॥ 40 ॥
सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगते गतागते ।
मुक्तोस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रये वस्तुमिहाभ्युपागतः ॥ 41 ॥
संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्करकर्मकारिणः ।
ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्ये च कुतूहलं यतः ॥ 42 ॥
अक्षान्निवप्तुं कुशलोस्म्वहं सदा पराजितः शकुनिरुतानि चिन्तयन् ।
मृगद्विजानां च रुतानि चिन्तयन्निराश्रयः प्रव्रजितोस्मि भिक्षुकः ॥ 43 ॥
वैशंपायन उवाच ।
तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च ।
अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः ॥ 44 ॥
ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान् ।
प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि ॥ 45 ॥
समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम् ।
स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् ॥ 46 ॥
ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः ।
सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः ॥ 47 ॥
ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् ।
यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च ॥ 48 ॥
युधिष्ठिर उवाच ।
अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम् ।
न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः ॥ 49 ॥
व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित् ।
एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ॥ 50 ॥
एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ ॥ 51 ॥
वैशंपायन उवाच ।
एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च ।
विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ॥ 52 ॥
तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः ।
सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव त्रिविष्टपम् ॥ 53 ॥
एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा ।
उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ॥ 54 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि नवमोऽध्यायः ॥ 9 ॥
4-9-6 वयश्च रूपं च बलं तथाऽऽप्नुयुरिति थo धo पाठः ॥ 6 ॥ 4-9-24 अन्येन रूपेण यतिवेषेण आगतं दृष्ट्वेति शेषः ॥ 24 ॥