अध्यायः 010
भीमेन सूदवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ विराटेन भीमस्य पाकाधिकारे नियोजनम् ॥ 2 ॥
वैशंपायन उवाच ।
अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः ।
असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ॥ 1 ॥
त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः ।
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ॥ 2 ॥
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन् ।
स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ॥ 3 ॥
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन् ।
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ॥ 4 ॥
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम् ।
भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ॥ 5 ॥
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम् ।
समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ॥ 6 ॥
अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव ।
कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ॥ 7 ॥
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः ।
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ॥ 8 ॥
राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः ।
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ॥ 9 ॥
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत् ।
नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ॥ 10 ॥
वैशंपायन उवाच ।
वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत् ।
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ॥ 11 ॥
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम् ।
त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ॥ 12 ॥
नरेन्द्र शूद्रोस्मि
चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत् ।
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि
शोभनान् ।
रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ॥ 13 ॥
वैशंपायन उवाच ।
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत् ।
न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ॥ 14 ॥
हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे ।
न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ॥ 15 ॥
अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः ।
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ॥ 16 ॥
भीम उवाच ।
चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम् ।
जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ॥ 17 ॥
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः ।
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ॥ 18 ॥
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् ।
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ॥ 19 ॥
गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् ।
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ॥ 20 ॥
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि ।
ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ॥ 21 ॥
वैशंपायन उवाच ।
तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत् ।
सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥ 22 ॥
त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे ।
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः ।
नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ॥ 23 ॥
तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः ।
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन ॥ 24 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि दशमोऽध्यायः ॥ 10 ॥