अध्यायः 013

सहदेवेन गोपालवेषधारणेन विराटंप्रति गमनम् ॥ 1 ॥ विराटेन सहदेवस्य गोपालने नियोजनम् ॥ 2 ॥

वैशंपायन उवाच ।
अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी ।
तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ॥ 1 ॥
तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत । प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम् ।
युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ 2 ॥
यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः ।
मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् ॥ 3 ॥
स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम् ।
मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः ॥ 4 ॥
न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम् ।
पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ॥ 5 ॥
निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत् । उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ॥ 6 ।
धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा ।
नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् ॥ 7 ॥
प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान् ।
बलं च मे रक्ष सुवेष सर्वशो गृहाण खङ्गं प्रतिरूपमात्मः ॥ 8 ॥
अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ॥ 9 ।
वैशंपायन उवाच ।
विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च ।
उवाच मत्स्यप्रवरं महापतिः शृणुष्व राजन्मम वाक्यमुत्तमम् ॥ 10 ॥
बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता ।
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ ॥ 11 ॥
वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ।
वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ॥ 12 ॥
न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो ॥ 13 ॥
विराट उवाच ।
त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि ।
आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् ॥ 14 ॥
कस्यामि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम् ।
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ॥ 15 ॥
सहदेव उवाच ।
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।
तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ॥ 16 ॥
अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे ।
तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ॥ 17 ॥
भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित् ।
न मेऽस्त्यविदितं किंचित्समन्ताद्दशयोजनम् ॥ 18 ॥
गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः ।
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥ 19 ॥
अनेन गणिता गावो दुर्विज्ञेया महत्तराः ।
बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ॥ 20 ॥
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित् ।
तैस्तैरुपयैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ॥ 21 ॥
ऋषभानपि जानामि राजन्पूजितलक्षणान् ।
येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ॥ 22 ॥
वैशंपायन उवाच ।
मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत ।
नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ॥ 23 ॥
अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम् ।
त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ॥ 24 ॥
शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम् ।
ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति ॥ 25 ॥
वैशंपायन उवाच ।
एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः ।
अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ॥ 26 ॥
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः ।
अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ॥ 27 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥