अध्यायः 017

द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ॥ 1 ॥

वैशंपायन उवाच ।
एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना ।
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ॥ 1 ॥
अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे ।
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ॥ 2 ॥
परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम् ।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ 3 ॥
परदारे न ते बुद्धिर्जातु कार्या कथंचन ।
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ॥ 4 ॥
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।
अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ॥ 5 ॥
वैशंपायन उवाच ।
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः ।
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ॥ 6 ॥
दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् ।
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ॥ 7 ॥
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने ।
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ॥ 8 ॥
प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् ।
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ॥ 9 ॥
अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे ।
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ॥ 10 ॥
पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह ।
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ॥ 11 ॥
सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह ।
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ॥ 12 ॥
मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने ।
भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ॥ 13 ॥
एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः ।
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ॥ 14 ॥
सैरन्ध्र्युवाच ।
मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम् ।
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ॥ 15 ॥
न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम ।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ 16 ॥
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ॥ 17 ॥
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ 18 ॥
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि ।
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ॥ 19 ॥
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य कीचक ।
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥ 20 ॥
तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति ।
न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा ॥ 21 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

4-17-16 भूतिः ईश्वरी ऐश्वर्याभिमानिनी देवता ॥ 16 ॥ 4-17-17 अनङ्गाङ्गविहारिणी रतिरित्यर्थः ॥ 17 ॥ 4-17-18 ईक्षणपक्ष्माणां नेत्रपक्ष्मणां स्मितं ईषदुन्मीलं तदेव ज्योत्स्नोपम मनस आह्लादकरम् ॥ 18 ॥ 4-17-20 सुजातौ उन्नतौ । निरन्तरौ पृथत्वात्सांश्लिष्टौ ॥ 20 ॥ 4-17-21 कुड्भलेति मुकुलीभूतपद्माकारौ ॥ 21 ॥ 4-17-24 अग्निमदनो मदनाग्निः ॥ 24 ॥ 4-17-28 कामं स्मरम् । प्रकाममतिशयितम् ॥ 28 ॥