अध्यायः 018
कीचकेन सुदेष्णांप्रति द्रौपद्याः स्ववशीकरणप्रार्थना ॥ 1 ॥
सुदेष्णया कीचके सुराहरणव्याजेन तद्गृहंप्रति द्रौपदीप्रेषणप्रतिज्ञानम् ॥ 2 ॥ तथा बलात्कारेण द्रौपद्याः सुरानयनाय कीचकगृहंप्रति गमनचोदना ॥ 3 ॥
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः ।
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ॥ 1 ॥
सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् ।
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥ 2 ॥
स तु मूर्ध्र्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ ।
संमोहाभिहतस्तूर्णं वातोद्धृत इवार्णवः ॥ 3 ॥
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः ।
अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ॥ 4 ॥
यथा सुदेष्णे सैरन्ध्र्या संगच्छेयं सकामया ।
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ॥ 5 ॥
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते ।
चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ॥ 6 ॥
वैशंपायन उवाच ।
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम् ।
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ॥ 7 ॥
शरणागतेयं सुश्रोणी मया दत्ताभया च सा ।
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ॥ 8 ॥
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा ।
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ॥ 9 ॥
एवमेषा ममाचष्टे तथा प्रथमसंगमे ।
तथैव गजनासोरूः सत्यमाह ममान्तिके ।
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ॥ 10 ॥
राजा चैव समीक्ष्यैनां संमोहं गतवानिह ।
मया च सत्यवचनैरनुनीतो महीपतिः ॥ 11 ॥
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत ।
भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम् ।
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ॥ 12 ॥
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः ।
दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ॥ 13 ॥
सैनन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम् ।
तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ॥ 14 ॥
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम् ।
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ॥ 15 ॥
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव ।
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ॥ 16 ॥
वैशंपायन उवाच ।
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत् ।
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा ।
अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ॥ 17 ॥
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् ।
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ॥ 18 ॥
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम् ।
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ॥ 19 ॥
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम् ।
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता ।
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेञ्जीवितं प्रियं ॥ 20 ॥
वैशंपायन उवाच ।
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता ।
अहो दुःखमहो कृच्छ्रमहो पापमिति स्मह ॥ 21 ॥
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा ।
पातालेषु पतत्येष विलपन्बडवामुखे ॥ 22 ॥
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे ।
किंनु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ॥ 23 ॥
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे ।
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः ।
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ॥ 24 ॥
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः ।
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ॥ 25 ॥
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः ।
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ॥ 26 ॥
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात् ।
विदितार्था करिष्यामि तुष्टो भव कुलक्षये ॥ 27 ॥
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम् ।
किंचित्कार्यं समुद्दिश्य सुरामन्नं च कारय ॥ 28 ॥
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः ।
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ॥ 29 ॥
ततः संप्रेषितामेनां विजने निरवग्रहाम् ।
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ॥ 30 ॥
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ॥ 31 ॥
वैशंपायन उवाच ।
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः ।
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ॥ 32 ॥
आगम्य च गृहं रम्यं सुरामन्नं चकार ह ।
अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ॥ 33 ॥
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा ।
कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ॥ 34 ॥
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा ।
नावबुध्यत मूढात्मा मरणं समुपस्थितम् ॥ 35 ॥
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते ।
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ॥ 36 ॥
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः ।
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ॥ 37 ॥
केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम् ।
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम् ।
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ॥ 38 ।
वैशंपायन उवाच ।
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम् ।
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ॥ 39 ॥
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः ।
स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ॥ 40 ॥
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम् ।
सैरन्ध्रीं तत आहूय सदेष्णा वाक्यमब्रवीत् ॥ 41 ॥
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् ।
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ॥ 42 ॥
वैशंपायन उवाच ।
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा ।
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वैः ॥ 43 ॥
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते ।
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् ।
त्वमेव भद्रे जानासि यथा स निरपत्रपः ॥ 44 ॥
समयश्च कृतो भद्रे यथा प्रथमसंगमे ।
तथा निवसमानायां यथाऽहं नान्यचारिणी ॥ 45 ॥
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः ।
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम् ।
कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ॥ 46 ॥
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः ।
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ॥ 47 ॥
कीचकस्यालयं देवि न यामि भयकम्पिता ।
यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ॥ 48 ॥
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी ।
तां विराटस्य माहिषी क्रुद्धा भूयोऽन्वशासत ॥ 49 ॥
कीचकं चैव गच्छ त्वं बलात्कारे चोदिता ।
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ॥ 50 ॥
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि ।
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ॥ 51 ॥
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे ।
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ॥ 52 ॥
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम् ।
या सुजाता सुगन्धा च तामानय सुरामिति ॥ 53 ॥
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा ।
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ॥ 54 ॥
यथाऽहमन्यं पार्थेभ्यो नाभिजानापि मानवम् ।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ 55 ॥
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी ।
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ 56 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
---------
4-18-2 अभिमन्यसे कामयसे ॥ 2 ॥ 4-18-5 मिथ्याभिगृध्नः
वितथाभिनिवेशी । महद्भयं मृत्युम् ॥ 5 ॥ 4-18-20 मन्यसे लिप्ससे
शिशोश्चन्द्रवदहं तव दुर्लभास्मीति भावः ॥ 20 ॥ 4-18-21 या स्वीयं अर्थयेत
कामयेत शुभेच्छारूपा तव नास्तीत्यर्थः । तेन च शुभेन परदारनिवृत्तिरूपेण कामितेन
संजीवनं भवतीति शेषः । अन्यथा मरिष्यसीत्यर्थः ॥ 21 ॥