अध्यायः 021

वैशंपायनेन जनमेजयंप्रति कीचकोत्पत्तिप्रकारादिकथनम् ॥ 1 ॥

जनमेजय उवाच ।
अहो दुःखतरं प्राप्ता कीचकेन पदा हता ।
पतिव्रता महाभागा द्रौपदी योषितांवरा ॥ 1 ॥
दुःशलां स्मारयन्ती सा भर्तॄणां भगिनीं शुभाम् ।
नाशपत्सिन्धुराजं सा बलात्कारेण वाहिता ॥ 2 ॥
किमर्थमिह संप्राप्ता कीचकेन दुरात्मना ।
नाशपत्तं महाभागा कृष्णा पादेन ताडिता ॥ 3 ॥
तेजोराशिरियं देवी धर्मज्ञा सत्यवादिनी ।
केशपांशे परामृष्टा मर्षयन्ती ह्यशक्तवत् ॥ 4 ॥
नैतत्कारणमल्पं हि श्रोतुकामोऽस्मि सत्तम ।
कृष्णायास्तु परिक्लेशान्मनो मे दूयते भृशम् ॥ 5 ॥
कस्य वंशे समुद्भूतः स च दुर्ललितो मुने ।
बलोन्मत्तः कथं चासीत्स्यालो मात्स्यस्य कीचकः ॥ 6 ॥
दृष्ट्वापि तां प्रियां भार्यां सूतपुत्रेण ताडिताम् ।
नैव चुक्षुभिरे वीराः किमकुर्वन्त तं प्रति ॥ 7 ॥
वैशंपायन उवाच ।
त्वदुक्तोऽयमनुप्रश्नः कुरूणां कीर्तिवर्धनः ।
एतत्सर्वं यथा वक्ष्ये विस्तरेणेह पार्थिव ॥ 8 ॥
ब्राह्मण्यां क्षत्रियाञ्जातः सूतो भवति पार्थिव ।
प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ॥ 9 ॥
रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम् ।
क्षत्रियादवरो वैश्याद्विशिष्ट इति चक्षते ॥ 10 ॥
सह सूतेन संबन्धः कृतः पूर्वं नराधिपैः ।
तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ॥ 11 ॥
तेषां तु सूतविषयः सूतानां नामतः कृतः ।
उपजीव्यं च यत्क्षेत्रं राजन्सूतेन वै पुरा ॥ 12 ॥
सूतानामधिपो राजा केकयो नाम विश्रुतः ।
राजकन्यासमुद्भूतः सारथ्येऽनुपमोऽभवत् ॥ 13 ॥
पुत्रास्तस्य कुरुश्रेष्ठ मालव्यां जझिरे तदा ।
कीचका इति विख्याताः शतं षट् चैव भारत ॥ 14 ॥
तेषामासीद्बलश्रेष्ठः कीचकः सर्वजित्प्रभो ।
अग्रजो बलसंमत्तस्तेनासीत्सूतषट्शतम् ॥ 15 ॥
मालव्या एव कौरव्य तत्र ह्यवरजाऽभवत् ।
तस्यां केकयराज्ञस्तु सुदेष्णा दुहिताऽभवत् ॥ 16 ॥
तां विराटस्य मात्स्यस्य केकयः प्रददौ मुदा ।
सुरथायां मृतायां तु कौसल्यां श्वेतमातरि ॥ 17 ॥
श्वेते विनष्टे शङ्खे च गते मातुलवेश्मनि ।
सुदेष्णां महिषीं लब्ध्वा राज दुःखमपानुदत् ॥ 18 ॥
उत्तरं चोत्तरां चैव विराटात्पृथिवीपते ।
सुदेष्णा सुषुवे देवी कैकेयी कुलवृद्धये ॥ 19 ॥
मातृष्वसृसुतां राजन्कीचकस्तामनिन्दिताम् ।
सदा परिचरन्प्रीत्या विराटे न्यवसत्सुखी ॥ 20 ॥
भ्रातरश्चास्य विक्रान्ताः सर्वे च तमनुव्रताः ।
विराटस्यैव संहृष्टा बलं कोशं त्ववर्धयन् ॥ 21 ॥
कालेया नाम ते दैत्याः प्रायशो भुवि विश्रुताः ।
जझिरे कीचका राजन्बाणो ज्येष्ठस्तथाऽभवत् ॥ 22 ॥
स हि सर्वास्रसंपन्नो बलवान्भीमविक्रमः ।
कीचको नष्टमर्यादो बभूव भयदो नृणाम् ॥ 23 ॥
तं प्राप्य बलसंमत्तं विराटः पृथिवीपतिः ।
जिगाय सर्वांश्च रिपून्यथेन्द्रो दानवान्पुरा ॥ 24 ॥
मेखलांश्च त्रिगर्तांश्च दशार्णांश्च कशेरुकान् ।
मालवांश्चैव यवनान्सिलिन्दान्काशिकोसलान् ॥ 25 ॥
करदांश्च निषिद्धांश्च शिवान्मचुलकांस्तथा ।
पुलिन्दांश्च कलिङ्गांश्च तङ्कणान्परतङ्कणान् ॥ 26 ॥
अन्ये च बहवः शूरा नानाजनपदेश्वराः ।
कीचकेन रणे भग्ना विद्रवन्ति दिशो दश ॥ 27 ॥
तमेवंवीर्यसंपन्नं नागायुतसमं बले ।
विराटस्तत्र सेनायाश्चकार पतिमात्मनः ॥ 28 ॥
विराटभ्रातरश्चैव दश दाशरथेः समाः ।
ते चैनानन्ववर्तन्त कीचकान्बलवत्तरान् ॥ 29 ॥
एवंविधबलो भीमः कीचकस्ते च तद्विधाः ।
राज्ञः स्याला महात्मानो विराटस्य हितैषिणः ॥ 30 ॥
एतत्ते कथितं सर्वं कीचकस्य पराक्रमम् ।
द्रौपदी न शशापैनं यस्मात्तद्गदतः शृणु ॥ 31 ॥
रक्षन्ति हि तपः क्रोधादृषयो न शपन्ति च ।
जानन्ती तद्यथातत्त्वं द्रौपदी न शशाप तम् ॥ 32 ॥
क्षमा धर्मः क्षमा दानं क्षमा यज्ञः क्षमा तपः ।
क्षमा सत्यं क्षमा शीलं क्षमा सर्वमिति श्रुतिः ॥ 33 ॥
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
एतत्सर्वं विजानन्ती सा क्षमामन्वपद्यत ॥ 34 ॥
भर्तॄणां मतमाज्ञाय क्षमिणां धर्मचारिणाम् ।
नाशपत्तं विशालाक्षी सती शक्ताऽपि भारत ॥ 35 ॥
पाण्डवाश्चापि ते सर्वे द्रौपदीं प्रेक्ष्य दुःखिताम् ।
क्रोधाग्निनाऽप्यदह्यन्त तदा लञ्जाव्यपेक्षया ॥ 36 ॥
अथ भीमो महाबाहुः मूदयिष्यंस्तु कीचकम् ।
वारितो धर्मपुत्रेण वेलयेव महोदधिः ॥ 37 ॥
संधार्य मनसा रोषं दिवारात्रं विनिश्वसन् ।
महानसे तदा कृच्छ्रात्सुष्वाप रजनीं च ताम् ॥ 38 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि एकविंशोऽध्यायः ॥ 21 ॥