अध्यायः 023

द्रौपद्या भीमंप्रति स्ववैभवानुस्मारणेन परिशोचनपूर्वकं कीचकहननचोदना ॥ 1 ॥

द्रौपद्युवाच ।
अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि ।
वशगाऽस्मि सुदेष्णाया अक्षधूर्तस्य कारणात् ॥ 1 ॥
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप ।
आसे कालमुपासीना सर्वदुःखसहा पुनः ॥ 2 ॥
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च ।
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 3 ॥
चक्रवत्परिवर्तन्ते ह्यर्थाश्च व्यसनानि च ।
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः ॥ 4 ॥
य एव हेतुर्भवति पुरुषस्य जयावहः ।
पराजये च हेतुः स इति च प्रतिपालये ॥ 5 ॥
दत्त्वा याचन्ति पुरुषा हत्वा हन्यन्त एव ते ।
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम् ॥ 6 ॥
न दैवस्यातिभारोस्ति न चैवास्यातिवर्तनम् ।
इति चाप्यागमं भूयो दैवस्य प्रतिपालये ॥ 7 ॥
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति ।
इति पर्यायमिच्छन्ति प्रतीक्षाम्युदयं पुनः ॥ 8 ॥
दैवेन किल यस्यार्थः सुनीतोपि विपद्यते ।
सदा दैवागमे यत्नस्तेन कार्यो विजानता ॥ 9 ॥
किंनु मे वचनस्याद्य कथितस्य प्रयोजनम् ।
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते ॥ 10 ॥
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च ।
इमामवस्थां संप्राप्ता मदन्या का जिजीविषेत् ॥ 11 ॥
कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत ।
पाण्डवेयांश्च संप्राप्तो मम शोको ह्यरिन्दम ॥ 12 ॥
भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता ।
एवं समुदिता नारी कान्वेयं दुःखभागिनी ॥ 13 ॥
नूनं बालतया धातुर्मया वै विप्रियं कृतम् ।
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ ॥ 14 ॥
वर्णं विकारमपि मे पश्य पाण्डव यादृशम् ।
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा ॥ 15 ॥
त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा ।
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे ॥ 16 ॥
तद्दैविकमिदं मन्ये यत्र पार्थो धनञ्जयः ।
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः ॥ 17 ॥
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः ।
विनिपातमिमं पश्य युष्माकमविचिन्तितम् ॥ 18 ॥
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा ।
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती ॥ 19 ॥
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा ।
युष्मासु ध्रियमाणेषु पाञ्चालेषु च मानद ॥ 20 ॥
यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी ।
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी ॥ 21 ॥
यस्याः पुरश्चरा ह्यासन्पृष्ठतश्चानुगामिनः ।
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी ॥ 22 ॥
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत् । या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः ।
अन्यत्र कुन्त्या भद्रं ते सा पिनष्म्यद्य चन्दनं ॥ 23 ॥
पश्य कौन्तेय पाणी मे नैवं वै भवतः पुरा ।
इत्यस्मै दर्शयामास किणवन्तौ करावुभौ ॥ 24 ॥
बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन ।
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी ॥ 25 ॥
किंनु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा ।
नान्यपिष्टं विराटस्य चन्दनं किल रोचते ॥ 26 ॥
वैशंपायन उवाच ।
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी ।
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता ॥ 27 ॥
सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः ।
हृदयं भीमसेनस्य घटयन्तीदमब्रवीत् ॥ 28 ॥
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा ।
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव ॥ 29 ॥
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम् । विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम् ।
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा ॥ 30 ॥
पापे निपतितायाश्च किं फलं जीवितेन मे ।
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ ॥ 31 ॥
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः ।
मुखमानीय वेपन्त्या रुरोद परवीरहा ॥ 32 ॥
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान् ।
ततः परमदुःखार्त इदं वचनमब्रवीत् ॥ 32 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

4-23-6 मानयित्वा च मान्यन्ते नरा दैवविपर्यये इति थo पाठः ॥ 6 ॥