अध्यायः 025
द्रौपद्या भीमवचनात्कीचकंप्रति नर्तनशालाया उभयोः समागमे संकेतस्थानत्वनिर्धारणेन रात्रौ तत्रागमनचादना ॥ 1 ॥
भीम उवाच । 
					तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
						अद्यैनं सूदयिष्यामि कीचकं सह बान्धवैः ॥ 1 ॥
					अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम् ।
						दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥ 2 ॥
					यैषा नर्तनशालेह मत्स्यराजेन कारिता ।
						दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति तथा गृहं ॥ 3 ॥
					तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम् ।
							तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
						
						त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम् ॥ 4 ॥
						
					संकेतं सूतपुत्रस्य कारयस्व शुभानने ।
						यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम् ॥ 5 ॥
					तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत् ।
						तथा कुर्याश्च संकेतं सूतपुत्रस्य संवृतम् ॥ 6 ॥
					आवयोः संगमं भीरु यथा मार्त्यो न बुध्यति ।
						कीचकस्य विनाशाय तथा कुरु नृपात्मजे ॥ 7 ॥
						वैशंपायन उवाच । 
					तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ ।
						रात्रिशेषं तमत्युग्रं धारयामासतुर्हृदि ॥ 8 ॥
					भीमेन च प्रतिज्ञाते कीचकस्य वधे तदा ।
						द्रौपदी च सुदेष्णायाः प्रविवेश पुनर्गृहम् ॥ 9 ॥
					तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः ।
						गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥ 10 ॥
					यत्त्वाऽहं पश्यतो राज्ञः पातयित्वा पदाऽहनम् ।
						न कंचिल्लभसे नाथमभिपन्ना बलीयसा ॥ 11 ॥
					प्रवादेन तु मात्स्यानामयं राजेति चोच्यते ।
						अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः ॥ 12 ॥
					सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते ।
						न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे ॥ 13 ॥
					अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते ।
						दासीशतं च ते दद्यां दासानामपि चापरम् ॥ 14 ॥
					रथांश्चाश्वतरीयुक्तानस्तु नौ भीरु संगमः ।
						सुदासानां सहस्रं च महिषाणां सहस्रकम् ॥ 15 ॥
					अन्तःपुरसहस्रं च हेमकूटसहस्रकम् ।
						तुभ्यं दास्यामि सर्वाणि राजार्हाण्यम्बराणि च ॥ 16 ॥
						द्रौपद्युवाच । 
					एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक ।
						न ते सखा वा भ्राता वा जानीयात्संगमं मया ॥ 17 ॥
					अनुप्रवादाद्भीताऽस्मि गन्धर्वाणां यशस्विनाम् ।
							अनुबोधाद्गनर्थः स्यादयशश्च महद्भवेत ।
						
						एतन्मे प्रतिजानीहि ततोऽहं वशगा तव ॥ 18 ॥
						
						कीचक उवाच । 
					एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे ।
						एकोऽहमागमिष्यामि शून्यमावसथं तव ॥ 19 ॥
					समागमार्थं रम्भोरु त्वया मदनदर्पितः ।
						यथा त्वां नैव पश्येयुर्गन्धर्वाः सूर्यवर्चसः ॥ 20 ॥
						द्रौपद्युवाच । 
					यदेतन्नर्तनागारं मात्स्यराजेन कारितम् ।
						दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहं ॥ 21 ॥
					निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते ।
						तत्र दोषः परिहृतो भविष्यति न संशयः ॥ 22 ॥
					एकस्त्वं नर्तनागारं रात्रौ संकेतमाव्रज ।
						तत्राहं भविता तुभ्यं वशगा नात्र संशयः ॥ 23 ॥
						कीचक उवाच । 
					तथा भद्रे करिष्यामि यथा त्वं भीरु वक्ष्यसि ।
							एकः सन्नर्तनागारमागमिष्यामि भामिनि ।
						
						समागमार्थं सुश्रोणि शपे च सुकृतेन मे ॥ 24 ॥
						
					यथा त्वां नावबुध्यन्ति गन्धर्वा वरवर्णिनि ।
							सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम् ।
						
						अलंकरिष्याम्यद्याहं त्वत्समागमनाय वै ॥ 25 ॥
						
					वासांसि च विचित्राणि मनोज्ञानि तवापि च ।
						यथा मां न त्यजेथास्त्वं तथ रंस्ये त्वया सह ॥ 26 ॥
						द्रौपद्युवाच । 
					तथा चेदप्यहं सूत दर्शयिष्यामि ते सुखम् ।
						यन्नानुभूतं भवता जन्मप्रभृति कीचक ॥ 27 ॥
						वैशंपायन उवाच । 
					तमर्थमपि जल्पन्त्या द्रौपद्याः कीचकस्य ह ।
						क्षणमात्रं तदभवन्मासेनैव समं नृप ॥ 28 ॥
					कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः ।
						सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान् ॥ 29 ॥
					गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः ।
						अलंचक्रे तदाऽऽत्मानं सत्वरः काममोहितः ॥ 30 ॥
					तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत् ।
						अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥ 31 ॥
					आसीदभ्यधिका चापि श्रीः श्रियं प्रमुमुक्षतः ।
						निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥ 32 ॥
					कृतसंप्रत्ययस्तस्याः कीचकः काममोहितः ।
						नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम् ॥ 33 ॥
					ततस्तु द्रौपदी गत्वा भीमसेनं महानसे ।
						उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥ 34 ॥
					तमुवाच सुकेशान्ता कीचकस्य कृतो मया ।
						सङ्गमो नर्तनागारे यथाऽवोचः परन्तप ॥ 35 ॥
					कालेन नियतं बद्धः कामेन च बलात्कृतः ।
							शून्यं स नर्तनागारमागमिष्यति कीचकः ।
						
						एको निशि महाबाहो कीचकं तं निषूदय ॥ 36 ॥
						
					तं मूतपुत्रं कौन्तेय कीचकं मददर्पितम् ।
						गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥ 37 ॥
					गर्वितः मूतपुत्रोऽसौ गन्धर्वानवमन्यते ।
						स त्वं प्रहरतांश्रेष्ठ नालं नाग इवोद्धर ॥ 38 ॥
					अस्रं दुःखाभिभूताया मम मार्जस्व भारत ।
							बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम् ।
						
						आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥ 39 ॥
						
						भीम उवाच । 
					स्वागतं ते वरारोहे यन्मां वेदयसे प्रियम् ।
						नह्यस्य कंचिदिच्छामि सहायं वरवर्णिनि ॥ 40 ॥
					सा मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे ।
						हत्वा हिडिम्बं या प्रीतिर्ममासीत्सा शुचिस्मिते ॥ 41 ॥
					सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते ।
						कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥ 42 ॥
					प्रसह्य निहनिष्यामि केशवः केशिनं यथा ।
						रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम् ॥ 43 ॥
					अहं भद्रे हनिष्यामि कीचकं मदनान्वितम् ।
						यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते ॥ 44 ॥
					अथ चेदवबुध्यन्ति सूतपुत्रं मया हतम् ।
						निर्मनुष्यं करिष्यामि मत्स्यानामिदमालयम् ॥ 45 ॥
					मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रो विबुध्यति ।
							दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम् ।
						
						कुरुणामखिलं राज्यं प्रतिपत्स्यामि भामिनि ॥ 46 ॥
						
					नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम् ।
							कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः ।
						
						काममन्ये ह्युपासन्तु विनीता धर्मचारिणः ॥ 47 ॥
						
					त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम् ।
						निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः ॥ 48 ॥
						द्रौपद्युवाच । 
					कीचकस्य वधं भीम यदि जानन्ति नागराः ।
						त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे ॥ 49 ॥
					कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो ।
						निशि गूढं तथा भीम कीचकं तं निपातय ॥ 50 ॥
					अनुबुद्धे हि कौन्तेयो धर्मराजो युधिष्ठिरः ।
						पुनर्वनं व्रजेद्धीमाननुजैः परिवारितः ॥ 51 ॥
					कश्च धर्मपरं ज्येष्ठमतिवर्तेत भारत ।
						भीम भीताऽस्मि संबोधात्साधु मा चापलं कृथाः ॥ 52 ॥
					यथा न कश्चिञ्जानीते सूतपुत्रं त्वया हतम् ।
							तथा कुरुष्व कौरव्य बलवन्नरिमर्दन ।
						
						अदृश्यमानस्त्वंतस्य भिन्धि प्राणानरिन्दम ॥ 53 ॥ ॥
					इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥
