अध्यायः 027

भ्रातृवधामर्पितैरुपकीचकैः पाञ्चाल्याः कीचकेन सह चरमविमानसमारोपणेन श्मशानप्रापणम् ॥ 1 ॥ द्रौपदीसमाक्रन्दनिनदश्रवणात्पितृवनमुपागतवता भीमेनोपकीचकानां पञ्चाधिकशतस्य पञ्चताप्रापणम् ॥ 2 ॥ भीमेन द्रौपद्याः पतिव्रतोपाख्यानकथनात्समाश्वासनेन स्वावासप्रेपणपूर्वकं महानसप्रवेशः ॥ 3 ॥

वैशंपायन उवाच ।
तत्काले तु समागम्य सर्वे तत्रास्य बान्धवाः । रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे ॥ 1 ।
सर्वे संहृष्टरोमाणः संत्रस्ताः प्रेक्ष्य कीचकम् ।
तथा संभुग्नसर्वाङ्गं कूर्मं स्थल इवोद्धृतम् ॥ 2 ॥
पोथितं भीमसेनेन महेन्द्रेणेव दानवम् ।
कीचकं बलसंमत्तं दुर्धर्षं येन केन चित् ॥ 3 ॥
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम् ।
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥ 4 ॥
अपश्यन्नथ ते कृष्णां मूतपुत्राः समागताः ।
अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥ 5 ॥
समागतेषु सूतेषु तानुवाचोपकीचकः ।
हसन्निव पदाऽमर्षान्निर्दहन्निव चक्षुषा ॥ 6 ॥
हन्यतां शीघ्रमसती यत्कृते कीचको हतः ।
अथवा नैव हन्तव्या दह्यतां कामिना सह ॥ 7 ॥
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ।
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी ॥ 8 ॥
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति । सहेयं दह्यतां सूता आमन्त्र्य च जनाधिपम् ।
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत् ॥ 9 ॥
वैशंपायन उवाच ॥
ततो विराटमासाद्य सूताः प्राञ्जलयोऽब्रुवन् ।
कीचकोऽयं हतः शेते गन्धर्वैः कामरूपिभिः ॥ 10 ॥
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया ।
मानिताः स्मस्त्वया वीर तदनुज्ञातुमर्हसि ॥ 11 ॥
पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत ।
सैरन्ध्र्याः सूतपुत्रेण सह दाहं नराधिपः ॥ 12 ॥
ततस्ते समनुज्ञाताः सर्वे तत्रास्य बान्धवाः ।
रुरुदुः कीचकं दृष्ट्वा परिवार्याभितः स्थिताः ॥ 13 ॥
आरोप्य कृष्णां सह कीचकेन निबध्य केशेषु च पादयोश्च ।
ते चापि सूता वचनैरवोचन्नुद्दिश्य चैनामभिवीक्ष्य कृष्णाम् ॥ 14 ॥
यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु ।
अवार्यसत्वेन च कीचकेन गतासुना सुन्दरी स्वर्गलोकम् ॥ 15 ॥
सा तेन कृष्णा शयने निबद्धा यशस्विनी चैव मनस्विनी च । अनार्यसत्त्वेन महार्यसत्त्वा गतासुना सा प्ररुरोद कृष्णा ।
विलम्बमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी ॥ 16 ॥
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता ।
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥ 17 ॥
मृतेन सह बद्धाङ्गी निराशा जीविते तदा ।
श्मशानाभिमुखं नीता करेणुरिव रौति सा ॥ 18 ॥
द्रौपद्युवाच ।
जयो जयेशो विजयो जयत्सेनो जयद्बलः ।
त मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 19 ॥
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते महान् ।
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥ 20 ॥
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः ।
अश्रूयत महान्युद्धे भीमघोपस्तरस्विनाम् ॥ 21 ॥
रथघोपश्च बलवान्गन्धर्वाणां तरस्विनाम् ।
ते मे वाचं बिजानन्तु सूतपुत्रा नयन्ति माम् ॥ 22 ॥
येषां वीर्यमतुल्यं तु शक्रस्येव बलं यशः ।
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखितां ॥ 23 ॥
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः ।
श्रुत्वैवाभ्युत्थितो भीमः शयनादविचारयन् ॥ 24 ॥
भीम उवाच ।
अहं सैरन्ध्रि ते वाचः शृणोमि तव भाषिताः ।
तस्मात्ते सूतपुत्रेभ्यो न भयं जातु विद्यते ॥ 25 ॥
वैशंपायन उवाच ।
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया ॥ 26 ॥
ततः स व्यायतं बद्ध्वा वस्त्रं विपरिवेष्ट्य च ।
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥ 27 ॥
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम् ।
श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥ 28 ॥
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात् ।
जवेनोत्पतितो भीमः सूतानामग्रतस्तदा ॥ 29 ॥
चितासमीपं गत्वा स तत्रापश्यन्महाबलः ।
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम् ॥ 30 ॥
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च ।
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः ॥ 31 ॥
ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा ॥ 32 ॥
तं महाकायमुद्यम्य भ्रामयित्वा च वेगितः ।
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः ॥ 33 ॥
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः ।
भूमौ निपतिता वृक्षाः संभग्नास्तत्र शेरते ॥ 34 ॥
तं सिंहमिव संक्रुद्धं दृष्ट्वा गन्धर्वमागतम् ।
वित्रेसुश्च तदा सूता विपादभयपीडिताः ॥ 35 ॥
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः । दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः ।
परस्परमथोचुस्ते विषादभयमोहिताः ॥ 36 ॥
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम् । प्रबुद्धाः सुमहाभागा गन्धर्वाः सूर्यवर्चसः ।
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम् ॥ 37 ॥
वैशंपायन उवाच ।
ते दृष्ट्वाऽथ समाविद्धं भीमसेनेन पादपम् ।
विमुच्य द्रौपदीं त्रस्ताः प्राद्रवन्नगरं प्रति ॥ 38 ॥
द्रवतस्तांश्च संप्रेक्ष्य स वज्री दानवानिव ।
अथ भीमः समुत्पत्य द्रवतां पुरतोऽभवत् ॥ 39 ॥
ते तं दृष्ट्वा भयोद्विग्ना निश्चेष्टाः समवस्थिताः ॥ 40 ॥
दृष्ट्वा ताञ्शतसङ्ख्यकान्स वज्री दानवानिव । एकेनैव प्रहारेण दश सप्त च विंशतिम् ।
अष्टादश च पञ्चाशञ्जघान स वृकोदरः ॥ 41 ॥
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् । वृक्षेणैकेन राजेन्द्र प्रभञ्जनसुतो बली ।
वायुवेगसमः श्रीमान्सर्वान्सूतानशेषतः ॥ 42 ॥
तान्निहत्य महाबाहुर्भीमसेनो महाबलः ।
आश्वासयत्तदा कृष्णां प्रतिमुच्य च बन्धनात् ॥ 43 ॥
उवाच श्लक्ष्णया वाचा पाञ्चालीं भरतर्षभः । अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः ॥ 44 ॥ 4-27-45a[ मा खिदस्त्वं(*) याज्ञसेनि पातिव्रत्यव्रते स्थिता । पातिव्रत्ये स्थिता नारी व्रतं रक्षेत्सदाऽत्मनः ॥ 45 ॥
पुरा स्त्री देवरातस्य पतिप्रीता शिरोमणिः ।
कदाचिद्भर्तृरूपेण रक्षसाऽपहृता सती ॥ 46 ॥
कस्यचित्सरसस्तीरे तां निवेश्य स राक्षसः ।
तद्भर्तृरूपं संत्यज्य रक्षो भूत्वा सुदारुणम् ॥ 47 ॥
साम्ना दानेन भेदेन सा यदा नान्वमन्यत ।
तदा तां पातयित्वा स मैथुनायोपचक्रमे ॥ 48 ॥
ततः सा धैर्यमास्थाय विवरं त ददौ तदा ।
ततः स खङ्गमुत्कृष्य भीषयामास तां सतीम् ॥ 49 ॥
साऽपि त्यक्तभया साध्वी प्राणत्यागे सुनिश्चिता ।
प्रतिज्ञामकरोत्कृष्णे पातिव्रत्यपरायणा ॥ 50 ॥
आराधितो यदि मया भर्ता मे दैवतं महत् । कर्मणा मनसा वाचा गुरवस्तोषिता मया ।
तेन सत्येन योनिर्मे भवत्वद्य शिला दृढा ॥ 51 ॥
एवं तया प्रतिज्ञाते तद्योनिः सा शिलाऽभवत् ।
अन्तरा नाभिजान्वोर्यत्तत्सर्वं च शिलाऽभवत् ॥ 52 ॥
ततः स खङ्गमुद्धृत्य वेगेनास्याः शिरोऽहरत् ॥ 53 ॥
जया नाम सखी साऽभूत्पार्वत्या नखमांसवत् ।
तस्मात्पतिव्रतायाश्च दुःखमल्पं सुखं बहु ॥ ]॥ 54 ॥
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः ।
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव ॥ 55 ॥
अन्येन त्वं पथा शीघ्रं सुदेष्णाया निवेशनम् । अन्येनाहं गमिष्यामि विराटस्य महानसम् ।
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ ॥ 56 ॥
वैशंपायन उवाच ।
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती ॥ 57 ॥ कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा ।
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम् ॥ 58 ॥ भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः ।
सर्वांस्तान्कीचकांस्तत्र हत्वा धर्मात्मजानुजः ॥ 59 ॥ निःशेषं कीचकान्हत्वा रामो रात्रिचरानिव ।
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः ॥ 60 ॥ पञ्चाधिकं शतं तत्र निहतं तेन भारत ।
महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥ 61 ॥ एवं ते निहता राजञ्शतं पञ्चोपकीचकाः ।
स च सेनापतिः सूत इत्येतत्सूतषट्शतम् ॥ 62 ॥ न गन्धर्वभयाकिंचिद्वक्तुं कीचकबान्धवाः ।
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम् ॥ 63 ॥ विराटनगरे चापि सर्वे मात्स्याः समागताः ।
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान् ॥ 64 ॥ तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः ।
विस्मयं परमं गत्वा नोचुः किंचन भारत ॥ 65 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तविंशोऽध्यायाः ॥ 27 ॥

4-27-45 *इमे 10 श्लोकाः घo पुस्तक एव दृश्यन्ते ॥ 4-27-63 तां द्रौपदीमभिवीक्षितुमपि अशक्नुवन्तः कीचकबान्धवाः तांप्रति किंचिद्वक्तुं नाशक्नुवन्नित्यध्याहारेण योजना ॥ 63 ॥