अध्यायः 032

दुर्योधनेन कीचकवधस्य भीमसेनकृतत्वसंभावनया पाण्डवानां तत्र स्थितिसंभावना ॥ 1 ॥ तथा भीष्माद्यनुमत्या सुशर्मणो विराटनगरंप्रति प्रेषणम् ॥ 2 ॥ सुशर्मणा विराटनगरमेत्य दक्षिणभागे गोग्रहम् ॥ 3 ॥

वैशंपायन उवाच ।
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा ।
युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ॥ 1 ॥
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम् ।
तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ॥ 2 ॥
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् ।
नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ॥ 3 ॥
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता ।
किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ॥ 4 ॥
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु ।
गूढभावेषु छन्नेषु काले चोदयमागते ॥ 5 ॥
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः ।
उदयः पाण्डवानां च प्राप्तकालो न संशयः ॥ 6 ॥
निवृत्तसमयाः पार्था महात्मानो महाबलाः ।
महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ॥ 7 ॥
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम् ।
यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ॥ 8 ॥
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः ।
नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥ 9 ॥
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत ।
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ॥ 10 ॥
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः ।
साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ॥ 11 ॥
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् ।
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ॥ 12 ॥
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि । योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः ।
अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ॥ 13 ॥
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः ।
यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥ 14 ॥
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः । ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् ।
मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ॥ 15 ॥
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि । धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये ।
कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ॥ 16 ॥
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे ।
सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ॥ 17 ॥
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि ।
उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले ममः ॥ 18 ॥
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् ।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ॥ 19 ॥
अन्योन्यानन्तरबलाः परस्परजयैपिणः ।
बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ॥ 20 ॥
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम् ।
मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ॥ 21 ॥
तत्राहं कीचकं मन्ये भीमसेनेन मारितम् ।
सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ॥ 22 ॥
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः ।
गन्धर्वव्यपदेशेन हतो निशि महाबलः ॥ 23 ॥
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा ।
शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ॥ 24 ॥
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् ।
रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ॥ 25 ॥
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः ।
गन्धर्वव्यपदेशेन हता निशि न संशयः ॥ 26 ॥
पितामहेन ये चोक्ता देशस्य च जनस्य च ।
गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ॥ 27 ॥
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः ।
निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ॥ 28 ॥
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम् ।
गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः ॥ 29 ॥
अपूर्णे समये चापि यदि पश्येम पाण्डवान् ।
द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ॥ 30 ॥
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति ।
कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ॥ 31 ॥
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा ।
एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ॥ 32 ॥
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम् ।
एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ॥ 33 ॥
वैशंपायन उवाच ।
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः । पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च ।
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ॥ 34 ॥
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः ।
सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ॥ 35 ॥
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो ।
स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ॥ 36 ॥
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ॥ 37 ॥
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा । अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः ।
स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ॥ 38 ॥
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः ।
भविष्यति निरुत्साहो विराट इति मे मतिः ॥ 39 ॥
तत्र यात्रा मम मता यदि ते रोचतेऽनघ ।
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ 40 ॥
एतत्कार्यमहं मन्ये परमात्ययिकं महत् ।
राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ॥ 41 ॥
आददामोऽस्य रत्नानि विविधानि वसूनि च ।
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ 42 ॥
अथवा गोसहस्राणि बहूनि शुभदर्शन ।
विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ॥ 43 ॥
कौरवैः सह संगमय त्रिगर्तैश्च विशांपते ।
गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ॥ 44 ॥
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् ।
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ॥ 45 ॥
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् ।
भवतां बलवृद्धिश्च भविष्यति न संशयः ॥ 46 ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ॥ 47 ॥
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः ।
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं ॥ 48 ॥
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते । प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ॥ 49 ।
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः ।
आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ॥ 50 ॥
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् ।
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते ॥ 51 ॥
किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः ।
अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ॥ 52 ॥
तद्भवांश्चतुरङ्गेण बलेन महता वृतः । विराटनगरं यातु सर्वसैन्येन भारत ।
आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ॥ 53 ॥
वैशंपायन उवाच ।
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत् । वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ।
शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ॥ 54 ॥
दुर्योधन उवाच ।
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ।
यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ॥ 55 ॥
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः । त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः ।
प्रागेव हि सुसंयत्तो विराटनगरं प्रति ॥ 56 ॥
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे ।
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ॥ 57 ॥
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने ।
विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ॥ 58 ॥
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः ।
गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ॥ 59 ॥
तथा गत्वा यथोद्देशं विराटनगरान्तिके ।
क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ॥ 60 ॥
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च ।
वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ॥ 61 ॥
वैशंपायन उवाच ।
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः । संनद्धा रथिनः सर्वे सपताका बलोत्कटाः ।
प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ॥ 62 ॥
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ॥ 63 ॥
अपरे दिवसे सर्वे राजन्संभूय कौरवाः । नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः ।
कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ॥ 64 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्वात्रिंशोऽध्यायः ॥ 32 ॥

4-32-31 तस्मादनन्तरेणापि लाभोऽस्माकमिति धo पाठः । तस्मात् गोग्रहणात अनन्तरेण युद्धायागतपाण्डवदर्शनेन ॥ 31 ॥ 4-32-32 युधिष्ठिरभृतः युधिष्ठिरो भृतो येन विराटेनेति बहुव्रीहिः ॥ 32 ॥ 4-32-63 कृष्णपक्षस्य सप्तमीमिति अष्टभ्यां तेऽन्यगृह्णन्तेति चo थo पाठः ॥ 63 ॥ 4-32- 64 विषयान्तरे उत्तरभागे ॥ 64 ॥