अध्यायः 033

गोपैर्दुतॄतरमाद्रुत्य विराटंप्रति सुशर्मणा गोगहणनिवेदनम् ॥ 1 ॥ विराटादिभिर्युद्धाय निर्गमोद्यमः ॥ 2 ॥ युधिष्ठिरेण विराटंप्रति स्वेषां युद्धकौशलनिवेदनेन भ्रातृभिः सह समराभियानम् ॥ 3 ॥

वैशंपायन उवाच ।
ततस्तेषां महाराज तत्रैवामिततेजसाम् ।
छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ 1 ॥
व्यतीतः समयः सम्यग्विराटनगरे सताम् ।
कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ॥ 2 ॥
कीचके तु हते राजा विराटः परवीरहा ।
परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ॥ 3 ॥
ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत ।
शुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ 4 ॥
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत् । शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः ।
गवाश्वरथनागानां निश्वनश्च पदातिनाम् ॥ 5 ॥
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने ।
त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ॥ 6 ॥
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु । परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत ।
गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ॥ 7 ॥
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः ।
गोपाला गोकुले भक्ता वारयामासुरोजसा ॥ 8 ॥
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः ।
गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ॥ 9 ॥
ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः ।
विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ॥ 10 ॥
हन्यमानेषु गोपेषु विमुखेषु विशांपते ।
ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ॥ 11 ॥
जवेन महता चैव गोपालाः पुरमाव्रजन् ।
विराटनगरं प्राप्य नरा राजानमब्रुवन् ॥ 12 ॥
सभायां राजशार्दूलमासीनं पाण्डवैः सह ।
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ॥ 13 ॥
सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् ।
दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ॥ 14 ॥
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् । षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति ।
ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ॥ 15 ॥
वैशंपायन उवाच ।
श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः । स राजा महतीं सेनां मात्स्यानां समवाहयत् ।
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ 16 ॥
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे ।
भानुमन्ति विवातानि सूपसेव्यानि भागशः ॥ 17 ॥
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।
उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ॥ 18 ॥
दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् ।
विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ 19 ॥
सर्वभारसहं वर्म कल्याणपटलं दृढम् ।
शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ॥ 20 ॥
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च ।
मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ॥ 21 ॥
दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम् ।
विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ 22 ॥
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् ।
अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ 23 ॥
ततो नानातनुत्राणि स्वानिस्वानि महाबलाः ।
युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ॥ 24 ॥
सोपस्करेषु शुभ्रेषु महत्सु च महारथाः ।
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ॥ 25 ॥
सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते ।
महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ॥ 26 ॥
ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः ।
यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ 27 ॥
रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् ।
मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ॥ 28 ॥
दंशितो रथमास्थाय पदं निर्याम्यहं गवाम् ।
अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ॥ 29 ॥
गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः ।
नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ॥ 30 ॥
वैशंपायन उवाच ।
अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् ।
कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ॥ 31 ॥
तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः । शूराः सुवीराः पुरुषा नागराजवरोपमाः ।
युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ 32 ॥
एतेपामपि दीयन्तां रथा ध्वजपताकिनः ।
कवचानि विचित्राणि दृढानि च लघूनि च ॥ 33 ॥
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ।
नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ॥ 34 ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः ।
शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ॥ 35 ॥
सहदेवाय राज्ञे च भीमाय नकुलाय च ।
तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ॥ 36 ॥
निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन् ।
कवचानि विचित्राणि नवानि च दृढानि च ॥ 37 ॥
विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम् ।
तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ॥ 38 ॥
तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः । रथान्हेमपरिष्कारान्समास्थाय महारथाः ।
पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ॥ 39 ॥
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः ।
चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ 40 ॥
दीर्घानां च दृढानां च धनुषां ते यथाबलम् ।
उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ॥ 41 ॥
ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः ।
चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ॥ 42 ॥
ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः ।
चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ॥ 43 ॥
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः ।
स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ॥ 44 ॥
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः ।
राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ॥ 45 ॥
दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् ।
तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ॥ 46 ॥
तं प्रयान्तं महाराज निनीषन्तं गवां पदम् ।
विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ॥ 47 ॥
विंशतिस्तु सहस्राणि नराणामनुयायिनाम् । अष्टौ रथसहस्राणि दश नागशतानि च ।
विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ॥ 48 ॥
तदनीकं विराटस्य शुशुभेऽतीव भारत ।
वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ॥ 49 ॥ ॥

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहाणपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥