अध्यायः 044
उत्तरेण बृहन्नलाया अर्जुनत्वविज्ञानेन तंप्रत्यज्ञानमूलकभूतपूर्वस्वापराधक्षमापनम् ॥ 1 ॥ अर्जुनेनोत्तरंप्रति स्वस्य क्लैब्यप्राप्तिहेतुकथनम् ॥ 2 ॥ तथोत्तरस्य सारथीकरणापूर्वकं रथारोहणेन रणायाभियानम् ॥ 3 ॥
वैशंपायन उवाच ।
ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत् ।
अहं भूमिंजयो नाम प्रणतोस्मि धनंजय ॥
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।
लोहिताक्ष महाबाहो नागराजवरोपम ॥
यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम ।
अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम ॥
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम् ।
अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि ॥
दासोऽहं ते भविष्यामि पश्य मामनुकम्पया ॥
या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात् ।
सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते ॥
देवेन्द्रतनयस्येह सारथिः स्यां महामृधे ।
इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद ॥
प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् ।
मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत् ॥
आस्थाय विपुलं वीर रथं सारथिना मया ।
दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम ॥
अर्जुन उवाच ।
प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव ।
सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥
स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह ।
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम् ॥
गाण्डीवं देवदत्तं च शरान्कनकभूषणान् ।
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे ।
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥
अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् ।
तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः ॥
संकल्पागाधपरिधं बाहुप्राकारतोरणम् ।
त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम् ॥
ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः ।
शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् ।
नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना ।
अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥
उत्तर उवाच ।
बहुना किं प्रलापेन शृणु मे परमं वचः ।
नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः ॥
यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि ।
बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि ।
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम् ॥
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम् ।
निश्चयं नाधिगच्छामि नावगच्छामि किंचन ॥
एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च ।
केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम् ॥
मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम् ।
गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम् ॥
अर्जुन उवाच ।
भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम् ।
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः ।
उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम् ॥
पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम् ।
प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा ॥
नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ ।
अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे ॥
रात्रौ समागता मह्यं शयनं रन्तुमिच्छया ।
अहं तामभिवाद्यैव मातृसत्कारमाचरम् ॥
सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै ।
श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता ॥
उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा ।
इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा ॥
तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ ।
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥
उत्तर उवाच ।
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा ।
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः ॥
सहायवानस्मि रणे युद्ध्येयममरैरपि ।
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥
अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण ।
शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ ॥
दारुको वासुदेवस्य यथा शक्रस्य मातलिः ।
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥
अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः ।
योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः ॥
यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम् ।
दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः ॥
योऽयं हयो धुर्यवरो वामां वहति शोभनः ।
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥
योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः ।
वलाहकादभिमतस्तेजसा वीर्यवत्तरः ॥
योऽयं काञ्चनसन्नाहो वामं वहति शोभनः ।
धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम् ॥
त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् ।
त्वं चे.. रथमास्थाय योद्धुमर्हो मतो मम ।
शर्वशत्रुभिरायातो देवराज इवासुरैः ॥
वैशंपायन उवाच ।
ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः ।
प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया ॥
ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः ।
तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ ॥
इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले ।
श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा ॥
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः ।
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे ॥
ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम् ।
इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन ॥
प्रणिपत्य ततः पार्थः समालभ्य च पाणिना ।
सर्वाणि मानसानीह भवतेत्यभ्यभाषत ॥
प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् ।
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः ।
यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः ॥
सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम् ।
भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः ॥
तं शब्दं कुरवो राजन्विस्फोटमशनेरिव ।
तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः ॥
यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि ।
तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली ॥
महाशनिमहाशब्दसदृशो ज्यास्वनो महान् ।
शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः ॥
उत्तर उवाच ।
एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान् ।
कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान् ॥
असहायो ।सि कोन्तेय ससहायाश्च कौरवाः ।
अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः ॥
वैशंपायन उवाच ।
उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा ॥
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ॥
तथा प्रतिभये तस्मिन्देवदानवसंकुले ।
खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम ॥
निवातकवचैः सार्धं पौलोमैश्च महाबलैः ।
युध्यतो देवराजार्थे कः सहायस्तदाऽभवत् ॥
स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे ।
युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत् ॥
उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम् ।
वरुणं पावकं चैव कृपं कृष्णं च माधवम् ।
पिनाकपाणिनं चैव कथमेतान्न योधये ॥
रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुश्चत्वारिंशोऽध्ययः ॥ 44 ॥