अध्यायः 046

सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ 1 ॥

सनत्सुजात उवाच ।
यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः । तद्वै देवा उपासते तस्मात्सूर्यो विराजते ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते । तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
आपोऽथाद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे ।
अतन्द्रितः सवितुर्विवस्वा- नुभौ बिभर्ति पृथिवीं दिवं च ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
उभौ च देवौ पृथिवीं दिवं च दिशः शुक्रो भुवनं बिभर्ति ।
तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्ताः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः । केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
न सादृश्ये तिष्ठति रूपमस्य न चक्षुपा पश्यति कश्चिदेनम् ।
मनीषयाथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
द्वादशपूगां सरितं पिबन्तो देवरक्षिताम् । मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
तदर्धमासं पिबति संचितं भ्रमरो मधु । ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः । ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे । हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा ।
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः । आदित्यो गिरते चन्द्रमादित्यं गिरते परः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् । तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम् ।
तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
असाधना वापि ससाधना वा समानमेतद्दृश्यते मानुषेषु ।
समानमेतदमृतस्येतरस्य मुक्तास्तत्र मध्व उत्सं समापुः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
उभौ लोकौ विद्यया व्याप्य याति तदा हुतं चाहुतमग्निहोत्रम् ।
मा ते ब्राह्मी लघुतामादधीत प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
एवंरूपो महात्मा स पावकं पुरुषो गिरन् । यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् । मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्वाः ।
हितो मनीषी मनसा न तप्यते ये प्रव्रजेयुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः ।
तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
नाहं सदाऽसत्कृतः स्यां न मृत्यु- र्न चामृत्युरमृतं मे कुतः स्यात् ।
सत्यानृते सत्यसमानबन्धे सतश्च योनिरतसतश्चैक एव ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
न साधुना नोत असाधुना वा- ऽसमानमेतद्दृश्यते मानुषेषु ।
समानमेतदमृतस्य विद्या- देवं युक्तो मधु तद्वै परीप्सेत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम् ।
मनो ब्राह्मी लघुतामादधीत प्रज्ञां चास्मै नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥
एवं यः सर्वभूतेषु आत्मानमनुपश्यति । अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ।
यथोदपाने महति सर्वतः संप्लुतोदके ।
एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥
अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदि संनिविष्टः ।
अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः ॥
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः ।
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।
ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥
आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः ।
अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः ॥
अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति ।
पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ ॥

इति श्रीमन्महाभारते उद्यगपर्वणि सनत्सुदजातपर्वणि षट्चत्वारिंशोऽध्यायः ॥ ॥ समाप्तमिदं सनत्सुजातपर्व ॥