अध्यायः 055

दुर्योधनेन धृतराष्ट्रंप्रति कृष्णादिभिः कुरुसमुच्छेदप्रतिज्ञापूर्वकपाण्डवसमाश्वासनश्रवणचकिताय स्वस्मै भीष्मादिभिरभयप्रदानकथनम् ॥ 1 ॥ तथा स्वपरपक्षयोः बलाबलनिरूपणपूर्वकं धृतराष्ट्रंप्रति समाश्वासनम् ॥ 2 ॥

दुर्योधन उवाच ।
न भेतव्यं महाराज न शोच्या भवतां वयम् ।
समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो ॥
वने प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।
महता बलचक्रेण परराष्ट्रावमर्दिना ॥
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षत ।
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।
व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह ॥
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् ।
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥
प्रत्यादनं च राज्यस्य कार्यमूचुर्नराधिपाः ।
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥
श्रुत्वा चैवं मयोस्तास्तु भीष्मद्रोणकृपास्तदा ।
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥
ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः ।
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥
ऋते च विदुरात्सर्वे यूयं वध्या मता मम ।
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः ॥
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः ।
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् ।
प्राणान्वा संपरित्यज्य प्रतियुध्यामाहे परान् ॥
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः ।
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः ।
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥
प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः ।
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम् ॥
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् । कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।
मत्प्रयार्थं पुरैवैतद्विदितं ते नरोत्तम ॥
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत ।
मत्वा मां महतीं चिन्तामास्थितंव्यथितेन्द्रियं ॥
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप ।
असमर्थाः परे जेतुमस्मान्युधि समास्थितान् ॥
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् ।
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः ।
मृते पितर्यतिक्रुद्धो रथेनैकेन भारत ॥
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः ।
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे ।
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ॥
इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम् ।
पुरा तेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ॥
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ।
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ ।
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः ॥
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप ।
मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् ।
विलपन्तं बहुविधं भीतं परविकत्थने ॥
एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति ।
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥
जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात् ।
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयंभुवः ॥
युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते ।
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो ॥
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् ।
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत ॥
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन ।
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥
युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा ।
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥
दुर्योधनसमो नास्ति गदायामिति निश्चयः । सङ्कर्षणस्य भवने यत्तदैनमुपावसम् ।
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि ।
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप ।
स एवैनं नयोद्धोरः क्षिप्रं वैवस्वतक्षयम् ॥
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् ।
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥
गदया निहतो ह्याजौ मया पार्थो वृकोदरः ।
विशीर्णगावः पृथिवीं परासुः प्रपतिष्यति ॥
गदाप्रहाराभिहतो हिमवानपि पर्वतः ।
सकृन्मया विदीर्येत गिरिः शतसहस्रधा ॥
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा ।
दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥
तत्ते वृकोदरमयं भयं व्येतु महाहवे ।
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् ।
समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् ।
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥
शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः ।
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत ।
ब्रह्मर्पिसदृशो जज्ञे देवैरपि सुदुःसहः ॥
न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन ।
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥
ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत ।
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमाश्त्रवित् ॥
कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि ।
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥
अयोनिजास्त्रयो ह्येते पिता माता च मातुलः ।
अश्वत्थाम्नो महारात स च शूरः स्थितो मम ॥
सर्व एते महाराज देवकल्पा महारथाः ।
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥
नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम् ।
सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम् ॥
भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम ।
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।
ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः ॥
अमोघया महाराज शक्त्या परमभीमया ।
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः ॥
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् । अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ।
अह्ना ह्येकेन भीष्मोयं प्रयुतं हन्ति भारत ।
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥
संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप ।
अर्जुनं वयमस्मान्वा निहन्यात्कपिकेतनः ॥
तांश्चालमिति मन्यन्ते सव्यसाचिवधे धृताः ।
पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम् ॥
भीमसेने च निहते कोऽन्यो युध्येत भारत ।
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ॥
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।
परेषां सप्त ये राजन्योधाः सारं बलं मतम् ॥
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।
द्रौणिर्विकर्तनः कर्णः सोमदत्तोथ बाह्लिकः ॥
प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः ।
दुःशासनो दुर्मखश्च दुःसहश्च विशांपते ॥
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ।
शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः ॥
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः ।
न्यूना परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः ।
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥
गुणहीनं परेषां च बहु पश्यामि भारत ।
गुणोदयं बहुगुणमात्मनश्च विशांपते ॥
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत ।
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चपञ्चाशत्तशोऽध्यायः ॥

5-55-18 नः अस्माभिः परेचेत् यद्यपि अभिद्रुग्धाः द्रोहविषयं नीताः तथापि न भेतव्यम् ॥ 5-55-33 युक्तोऽभियोगवान् । दुःखोषित गुरुकुले ॥ 5-55-34 उपावसं शिध्यत्वेन पर्यचरम् । 5-55-59 हन्यामेति वदन्तीति शेषः ॥ 5-55-60 तान् संशप्तकान् अलं अर्जुनवधे पर्याप्ता इति मन्यन्ते ॥ 5-55-67 त्रिगुणतस्त्र्यंशेन हीनम् । त्रिगुणा त्र्यंशेनाधिका ॥ 5-55-70 विवित्सुः विज्ञातुमिच्छुः । प्राप्तकालानि कर्माणि ॥ 5-55- 5-55- 5-55- 5-55-