अध्यायः 056

सञ्जयेन पाण्डवभावं बुभुत्सुं दुर्योधनंप्रति तेषां युद्धोत्कण्ठाकथनपूर्वकं तद्रथाश्ववर्णनम् ॥ 1 ॥

दुर्योधन उवाच ।
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय ।
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥
सञ्जय उवाच ।
अतीव मुदितो राजन्युद्धप्रेप्युर्युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ॥
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः ।
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ॥
तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा । समन्तात्समभिध्या हृष्यमाणोऽभ्यभाषत ।
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय ॥
बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत ॥
दुर्योधन उवाच ।
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् ।
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः ॥
सञ्जय उवाच ।
भौमनः सह शक्रेण बहुचित्रं विशांपते ।
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो ॥
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया ।
महाधनानि दिव्यानि महान्ति च लघूनि च ॥
भीमसेनानुरोधायक हनूमान्मारुतात्मजः ।
आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति ॥
सर्वा दिशो योजनमात्रमन्तरं सतिर्यगूर्ध्वं च रुरोध वै ध्वजः ।
न संसञ्जेत्तरुभिः संवृतोऽपि तथा हि माया विहिता भौमनेन ॥
यथाऽऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत् ।
तथा ध्वजो विहितो भौमनेन बह्वाकारं दृश्यते रूपमस्य ॥
यथाऽग्निधूमो दिवमेति रुद्ध्वा । वर्णान्बिभ्रत्तैजसांश्चित्ररूपान् ।
तथा ध्वजो विहितो भौमनेन न चेद्भारो भविता नोत रोधः ॥
श्वेतास्तस्मिन्वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः ।
भुव्यन्तरिक्षे दिवि वा नरेन्द्र येषां गतिर्हीयते नात्र सर्वा । शतं यत्तत्पूर्यते नित्यकालं हतंहतं दत्तवरं पुरस्तात्
तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः ।
ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेग बभूवुः ॥
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन ।
भ्रातुर्बीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति ॥
माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः ।
समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ।
तुल्याश्चैभिर्वयसा विक्रमेण महाजवाश्रित्ररूपाः सदश्वाः ।
सौभद्रादीन्द्रौपदेयान्कुमारान् वहन्त्यश्वा देवदत्ता बृहन्तः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षट्पञ्चाशोऽध्यायः ॥

5-56-3 मन्त्रं अस्त्रप्रयोजकं जिज्ञासमानः परीक्षितुमिच्छन् ॥ 5-56-7 भौमनो विश्वकर्मा । धाता प्रजापतिः ॥ 5-56-8 ते त्वष्टृशक्रधातारः रूपाणि चक्रुः ॥ 5-56-10 रुरोध स्वतेजसेति शेषः ॥ 5-56-12 भारो रथे रोधुः द्वारादौ द्वयमपि न भवेत् ॥ 5-56-13 यत्तत् अश्वानां शतं हतंहतं पुनःपुनः कतिपयाश्वहननेपि भावात् शतं पूर्यते । यतः पुरस्ताद्दत्तवरम् ॥ 5-56-17 देवदत्ताः चित्ररथेन दत्ताः ॥