अध्यायः 059

पुनः पृष्टेन सञ्जयेन धृतराष्ट्रंप्रति अर्जुनवाक्यकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् ।
यजर्जुन उवाच त्वां परं कौतूहलं हि मे ॥
सञ्जय उवाच ।
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः ।
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम् ॥
द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् ।
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम् ॥
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् ।
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम् ॥
सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च ।
भगदत्तं च राजानं जलसन्धं च पौरवम् ॥
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम् ।
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रोण सूत ॥
यथान्यायं कुशलं वन्दनं च समागता मद्वचनेन वाच्याः ॥
इदं ब्रूवाः सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम् ।
अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम् । सर्वं ममैतद्वचनं समग्रं सहामात्यं सञ्जय श्रावयेथाः ॥
एवं परिष्वज्य धनञ्जयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम् ।
प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः ॥
यथाश्रुतं ते वदतो महात्मनो यदुप्रवीरस्य वचः समाहितम् ।
तथैव वाच्यं भवतापि मद्वचः समागतेषु क्षितिपेषु सर्वशः ॥
शराग्निधूमे रथनेमिनादिते धनुस्स्त्रुवेणास्त्रबलापहारिणा ।
यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः ॥
न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यार्धमभीप्सितं स्वकम् ।
नयामि वः साश्वपदातिकुञ्जरा- न्दिशं पितॄणामशिवां शितैः शरैः ॥
ततोऽहमामन्त्र्य चतुर्भुजं हरिं धनञ्जयं चैव नमस्य सत्वरम् ।
जवेन संप्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकोनषष्टितमोऽध्यायः ॥