अध्यायः 063

दुर्योधनेन भीष्माभिमतपाण्डवजयपक्षप्रतिक्षेपः ॥ 1 ॥ तथा भीष्मादिनैरपेक्ष्येण कर्णादुश्शासनसङ्गतेन आत्मनैव पाण़्डवनिधनप्रतिज्ञा ॥ 2 ॥ विदुरेण दमप्रशंसनम् ॥ 3 ॥

दुर्योधन उवाच ।
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् ।
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥
वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः ।
समेन वयसा चैव प्रातिभेन श्रुतेन च ॥
अस्त्रेण योधयुग्या च शीघ्रत्वे कौशले तथा ।
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः ॥
पितामह विजानीषे पार्थेषु विजयं कथम् ।
नाहं भवति न द्रोणे न कृपे न च बाह्लिके ॥
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ।
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ॥
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ।
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः ॥
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च । यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना ।
अतरित्रानिव जले बाहुभिर्मामका रणे ॥
पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान् ।
तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः ॥
`सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुस्तरम् ।
विस्रब्धास्तु भविष्यामः प्राप्ते काले गतज्वराः ॥
वैशंपायन उवाच ।
अथाब्रवीन्महाराजो धृतराष्ट्रः सुदुर्मनाः ।
विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसंनिधौ ॥
धृतराष्ट्र उवाच ।
मोहितो मृत्युपाशेन कालस्य वशमागतः । तात कर्णेन सहितः पुत्रो दुर्योधनो मम ॥'
विदुर उवाच ।
इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते ।
दमो दानं तपो ज्ञानमधीतं चानुवर्तते ॥
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् ।
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् ॥
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयंभुवा ॥
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।
तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः ॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम् ॥
अकार्पण्यमसंरम्भः सन्तोषं श्रद्दधानता ।
एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः ॥
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम् । मान ईर्ष्यां च शोकश्च नैतद्दान्तो निषेवते ।
अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम् ॥
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता ।
समुद्रकल्पः परुषः स दान्तः परिकीर्तितः ॥
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽत्मविद्बुधः ।
प्राप्येह लोके संमानं सुगतिं प्रेत्य गच्छति ॥
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः ।
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः ॥
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः ।
समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति ॥
कर्मणाऽचरितं पूर्वं सद्भिराचरितं च यत् ।
तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः ।
कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते ॥
शकुनीनामिवाकाशे पदं नैवोपलभ्यते ।
एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते ॥
उत्सृज्यैव गृहान्यस्तु मोक्षमेवाभिमन्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि त्रिषष्टितमोऽध्यायः ॥

5-63-2 प्रातिभेन समयस्फूर्त्या ॥ 5-63-3 योधयुग्या शूरसमृद्ध्या ॥ 5-63-7 तरित्रा नौरक्षकाः कर्णधारादयः तद्रहितान् तद्वत् मामकास्तान् रणे बाहुभ्यां परिहरिष्यन्ति ॥ 5-63-16 समुदयः उदयहेतु ॥