अध्यायः 066

दुर्योधनेन धृतराष्ट्रवत्तनानभिनन्दने राज्ञां निर्गमनम् ॥ 1 ॥ धृतराष्ट्रेण स्वपरसेनयोः सारासारकथनचोदितेन सञ्जयेन व्यासगान्धारीसन्निधौ कथनकथनम् ॥ 2 । श्रीव्यासेन सञ्जयंप्रति धृतराष्ट्रप्रश्नस्योत्तरदानाभ्यनुज्ञानम् ॥ 3 ।

वैशंपायान उवाच ।
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति ।
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ॥
उत्थितेषु महाराज पृथिव्यां सर्वराजसु ।
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥
आशंसमानो विजयं तेषां पुत्रवशानुगः ।
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥
धृतराष्ट्र उवाच ।
गावल्गणे ब्रूहि नः सारफल्गु स्वेसनायं यावदिहास्ति किंचित् ।
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः ॥
त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः ।
स मे पृष्टः सञ्जय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति ॥
सञ्जय उवाच ।
न त्वां ब्रूयां रहिते जातु किंचि- दसूया हि त्वां प्रविशेत राजन् ।
आनयस्व पितरं महाव्रतं गान्धारीं च महिषीमाजमीढ ॥
तो तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
तयोस्तु त्वां सन्निधौ तद्वदेयं कृत्स्नं मतं केशवपार्थयोर्यत् ॥
वैशंपायन उवाच ।
इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह ।
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ॥
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च ।
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥
व्यास उवाच ।
संपृच्छते धृतराष्ट्रय सञ्जय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते ।
सर्वं यावद्वेत्थ तस्मिन्यथाव- द्याथातथ्यं वासुदेवेऽर्जुने च ॥ ॥

इति श्रीमन्महाभारतो उद्योगपर्वणि यानसन्धिपर्वणि षट्षष्टितमोऽध्यायः ॥

5-66-3 परेषां तटस्थानाम् ॥ 5-66-5 युध्यमाना न सन्ति उदासीना इत्यर्थः ॥ 5-66-6 पितरं व्यासम् ॥