अध्यायः 069

सञ्जयेन धृतराष्ट्रंप्रति वासुदेवादिभगवन्नामनिर्वचनम् ॥ 1 ॥ तथा सन्ध्यर्थं श्रीकृष्णागमनकथनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः ।
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥
सञ्जय उवाच ।
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम् ।
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः ।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ॥
मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम् ।
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ॥
कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः ।
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ॥
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः ॥
यतः सत्वं न च्यवते यच्च यत्वान्न हीयते ।
सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥
न जायते जनित्राऽयमजस्तस्मादनीकजित् ।
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ॥
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते ।
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ॥
अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः ।
नराणामयनाच्चापि ततो नारायणः स्मृतः ॥
पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः । असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् ।
सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते ॥
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।
सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः ॥
विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते ।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम् ॥
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ॥
एवंविधो धर्मनित्यो भगवान्मधुसूदनः ।
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि तयानसन्धिपर्वणि ऊनसस्ततितमोऽध्यायः ॥

5-69-2 यावदभिजाने तावत् । वदामीति शेषः । वस्तुतस्तु सः अप्रमेयः ॥ 5-69-3 वसत्यस्मिन् भुवनमिति वासुः दीर्घश्छान्दसः । स चासौ देवश्च वासुदेवः । बृहत्त्वाद्व्यापकत्वात् वेवेष्टि व्याप्नोति सर्वमिति विष्णुः । वृषत्वादिष्णुरपच्यते इति खo पाठः । वृषत्वात् अभीष्टसेन्नकत्वात् इति रत्नगर्भः ॥ 5-69-4 मौनं मुनेः कर्म मननं । मौनं च ध्यानं च ताभ्यां विषयतया युक्तो माधवः । सर्वतत्तवानि पृथिव्यादयो विषयाः । तेच सुखसाधनतया मधुशब्देनोक्ताः । तेषां लयात् संहर्तृत्वात् मधुहा मधुसूदनश्चेति नामद्वयम् ॥ 5-69-5 कृषिरितिशब्दो भूवाचकः कृष्यते सस्यार्थमिति व्युत्पत्त्या । भूमिलोकस्थाप्राणिसुखस्य यो भाव उत्पादनं तत्कर्तृत्वात्कृष्णो भवति ॥ 5-69-6 पुण्डरीकं हृदयकमलं धाम वासस्थानं तत्र सन्नपि अक्षो न क्षीयते हन्यते वेति पुण्डरीकाक्षः । तथाच श्रुतिर्नाच जरयैतज्जीर्यंति न वधेनास्य हन्यत इति हृत्पद्म । दोषैर्जरानाशादिभिः परमात्मनोऽस्पृष्टत्वमाह । दस्युत्रासात् जनं दस्युजनं अर्दयति पीडयतीति जनार्दन इत्यर्थः ॥ 5-69-7 सत्त्वं बलं । आर्षं वेदस्तेन भातीत्यार्षभ औपनिषदः पुरुषः । उपनिषद्वेद्यत्वाद्योगात् वृषभेक्षणः । तथाचायं योगः वृषं धर्मं भासयतीति वृषभो वेदस्तदेव ईक्षणं चक्षुरिव ज्ञापकं यस्य सः वृषभेक्षण इति ॥ 5-69-8 जनित्रा पित्रा न जायत इत्यजः । अनीकजित्सेनाजित् कृष्णः । देवानां स्वप्रकाशत्वात् । ऋगतावित्यस्मादुत्पूर्वात् अप् । उत् उत्कर्षेण ऋच्छति प्रकाशत इति उदरः । दमोस्यास्तीति दामः दामश्चासावुदरश्चेति दामोदरः ॥ 5-69-9 हर्षात् हृषिः सुखात्कं सुखैर्श्वर्यादीशः । महीति च्छान्दसं रोदस्योर्नाम । मह्यौ बाह्योर्यस्य स तथा । ईकाराकारश्छान्दसः ॥ 5-69-10 जातुशब्दार्थे जकारः ॥ 5-69-11 पुरयतीति पुरुः । सीदन्त्यस्मिन्निति सः तस्मात्पुरुषः स चासावुत्तमश्च पुरुषोत्तमः । असतःक कारणस्म सतः कार्यस्य प्रभवाप्ययात् उत्पत्तिप्रलयस्थानचात् सर्वशब्दस्तत्प्रभवाप्ययहेतावुपचारात्प्रवर्तते ॥ 5-69-12 सत्ये धर्मे ॥ 5-69-13 विशेषेण क्रमणात् व्यापनान् । एवं जयतीति जिष्णुः शाश्वतत्वात् शश्वद्भवत्वात् । गवामिन्द्रियाणां वेदनात् प्रकाशात् गोविन्दः ॥ 5-69-15 धर्मे नित्यं सन्निधानात् धर्मनित्यः आगन्ता आगमिष्यति । आनृशंस्यमहिंसा कुरुपाण्डवयोः तदर्थम् ॥