अध्यायः 070
श्रीकृष्णागमनश्रवणहृष्टेन धृतराष्ट्रेण चक्षुष्मत्प्रशंसनपूर्वकं श्रीकृष्णनुणानुवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच ।
चक्षुष्मतां वै स्पृहयामि सञ्जय
द्रक्ष्यन्ति ये वासुदेवं समीपे ।
विभ्राजमानं वपुषा परेण
प्रकाशयन्तं प्रदिशो दिशश्च ॥
ईरयन्तं भारतीं भारताना-
मभ्यर्चनीयां शङ्करीं सृञ्जयानाम् ।
बुभूषद्भिर्गर्हणीयामनिन्द्यां
परासूनामग्रहणीयरूपाम् ॥
समुद्यन्तं सात्वतमेकवीरं
प्रणेतारमृषभं यादवानाम् ।
निहन्तारं क्षोभणं शात्रवाणां
मुञ्चन्तं च द्विषतां वै यशांसि ॥
द्रष्टारो हि कुरवस्तं समेता
महात्मानं शब्रुहणं वरेण्यम् ।
ब्रुवन्तं वाचमनृशंसरूपां
वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥
ऋषिं सनातनतभं विपश्चितं
वाचःसमुद्रं कलशं यतीनाम् ।
अरिष्टनेमिं गरुडं सुपर्णं
हरिं प्रजानां भुवनस्य धाम ॥
सहस्रशीर्षं पुरुषं पुराण-
मनादिमध्यान्तमनन्तकीर्तिम् ।
शुक्रस्य धातारमजं च नित्यं
परं परेषां शरणं प्रपद्ये ॥
त्रैलोक्यनिर्माणकरं जनित्रं
देवासुराणामथ नागरक्षसाम् ।
नराधिपानां विदुषां प्रधान-
मिन्द्रानुजं तं शरणं प्रपद्ये ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्ततितमोऽध्यायः ॥
5-70-1 चक्षुष्मतां भाग्याय स्पृहयामि ॥ 5-70-5 अरिष्टः अहिंसितः नेमिः पादो यस्य सः अरिष्टनेमिः ॥ 5-70-7 निर्माणं रचना । जनित्रं जनयितारम् ॥ 5-70-