अध्यायः 074

श्रीकृष्णेन भीमंप्रति तत्प्रतिज्ञानुस्मारणपूर्वकं युद्धप्रोत्साहनम् ॥ 1 ॥

वैशंपायन उवाच ।
एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव ।
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः ॥
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके ।
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥
सन्तेजसंस्तदा वाग्भिर्भातरिश्वेव पावकम् ।
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम् ॥
श्रीभगवानुवाच ।
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि ।
वधामिनन्दिनः क्रूरान्धार्तराष्ट्रन्मिमर्दिषुः ॥
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप ।
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ॥
निःश्वसन्नग्निवत्तेन सन्तप्तः स्वेन मन्युना ।
अप्रशान्तमना भीम सधूम इव पावकः ॥
एकान्ते निःश्वसञ्शेपे भारार्त इव दुर्बलः ।
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ॥
आरुज्य वृक्षान्निर्मूलान्गजः परिरुजन्निव ।
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ॥
नास्मिञ्जने न रमसे रहः क्षिपसि पाण्डव ।
नान्यं निशि दिवा चापि कदाचिदभिनन्दसि ॥
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव ।
जान्वोर्मूर्धानमाधाय चिरमास्ते प्रमीलितः ॥
भ्रुकिटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव ।
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥
यथा तपुरस्तात्सविता दृश्यते शुक्रमुच्चरन् ।
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः ।
हन्ताहं गदयाभ्येत्य दुर्योधनममर्पणम् ॥
इति स्म मध्ये भ्रातृणां सत्येनालभसे वदाम् ।
तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परन्तप ॥
अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते ।
चेतांसि विप्रतीपानि यत्त्वां भीभीम विन्दति ॥
अहो पार्थ निमित्तानि विपरीतानि पश्यसि ।
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ॥
अहो नाशंससे किंचित्पुंस्त्वं क्लीब इवात्मनि ।
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥
उद्वेपते ते हृदयं मनस्ते प्रतिसीदति ।
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ॥
अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् ।
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी ।
मनांसि पाण्डुपुत्राणां मञ्जयत्यप्लवानिव ॥
इदं मे महादाश्चर्यं पर्वतस्येव सर्पणम् ।
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ॥
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत ।
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ॥
न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम ।
यदोजसा न लभते क्षत्रियो न तदश्रुते ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुःसप्ततितमोऽध्यायः ॥

5-74-6 अग्निवत् अग्निनेव ॥ 5-74-8 आरुज्य भङ्क्त्वा ॥ 5-74-9 अस्मिन्वने । जनेन ब्राह्मणरामूहेन । क्षिपसि नपसि कालमिति शेषः ॥ 5-74-12 शुक्रं तेजः । निर्मुक्तोऽस्तं गतः । ध्रुवं निश्चयं पुनः पर्येति मेरुं पुनःपुनः प्रदक्षिणीकरोति ॥ 5-74-19 अष्ठीला फलान्तर्ग्रन्थिः । सा च शाल्मलेः केवलं तूलमयी भवति ॥