अध्यायः 075
भीमेन कृष्णंप्रति स्वसामर्थ्यकथनपूर्वकं स्वस्य शमकामनायाः कृपामूलकत्वकथनम् ॥ 1 ॥
वैशंपायन उवाच ।
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः ।
सदश्ववत्समाधावद्बभाषे तदनन्तरम् ॥
भीमसेन उवाच ।
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत ।
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम् ॥
वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः ।
उत वा मां न जानासि प्लवन्हृद इवाप्लवे ॥
तस्मादनभिरुपाभिर्वाग्भिर्मां त्वं समर्च्छसि ।
कथं हि भीमसेनं मां जानन्कश्चन माधव ॥
ब्रूयादप्रतिरूपाणि यथा मां वक्तमर्हसि ।
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन ॥
आत्मनः पौरुषं चैव बलं च न समं परैः ।
सर्वथाऽनार्यकर्मैतत्प्रशंसा स्वयमात्मनः ॥
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ।
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः ॥
अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ ।
यदीमे सहसा क्रुद्धे समेयातां शिले इव ॥
अहमेते निगृह्णीयां बाहुभ्यां सचसाचरे ।
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव ॥
य एतत्प्राय मुच्येत न तं पश्यामि पुरूषम् ।
हिमवांश्च समुद्रश्च वज्री वा बलमित्स्वयम् ॥
मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ।
युद्धार्हान्क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः ॥
अधः पादतलेनैतानधिष्ठास्यामि भूतले ।
न हि त्वं नाभिजानासि मम विक्रममच्युत ॥
यथा मया विनिर्जित्य राजानो वशगाः कृताः ।
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् ॥
विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन ।
परुषैराक्षिपसि किं व्रणं सूच्येव चानघ ॥
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ।
द्रष्टासि युधि संबाधे प्रवृत्ते वैशसेऽहनि ॥
मया प्रणुन्नान्मातङ्गात्नथिनः सादनस्तथा ।
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् ॥
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ।
न मे सीदन्ति गात्राणि न ममोद्वेपते मनः ॥
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम ।
किं तु सौहृदमेवैतत्कृपया मधुसूदन ।
सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ॥
5-75-1 समाधावत् तीव्रवेगं यथा स्यात्तथा ॥ 5-75-3 ह्रदे प्लवन् पारमिवेति शेषः ॥ 5-75-14 संबाधे संकीर्णे ॥ 5-75-15 वैशसे विशसनवति ॥