अध्यायः 083
युधिष्ठिरेण श्रीकृष्णे पृथांप्रति कुशलप्रश्नपूर्वकस्वभिद्धादननिवेदनसमाश्वासनप्रार्थना ॥ 1 ॥ श्रीकृष्णस्य मध्येमार्गं तामदग्न्यादिमहर्षिसमागमः ॥ 2 ॥ महर्षिभिः श्रीकृष्णे धृतराष्ट्रादिभिः सह तत्संवादशुश्रूषया तत्र स्वागमननिवेदनम् ॥ 3 ॥
युधिष्ठिर उवाच ।
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला ।
उपवासतपःशीला सदा स्वस्त्ययने रता ॥
देवतातिथिपूजासु गुरुशुश्रूषणे रता ।
वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन ॥
सुयोधनभयाद्या नो त्रायतामित्रकर्शन ।
महतो मृत्युसंबाधुद्दुस्तरान्नौरिवार्णवात् ॥
अस्मत्कृते च सततं यया दुःखानि माधव ।
अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम् ॥
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् ।
अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन् ॥
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम ।
निराकाराऽतदर्हा च पश्यन्ती दुःखमश्रुते ॥
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः ।
यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम ॥
प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् ।
रुदतीमपहायैनामगच्छाम वयं वनम् ॥
सा नूनं म्रियते दुःखैः सा चेज्जीवति केशव ।
तथा पुत्राधिभिर्गाढमार्तामर्चय सत्कृत ॥
अभिवाद्याऽथ सा कृष्ण त्वया मद्वचवाद्विभो ।
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः ॥
भीष्मं द्रोणं कृपं चैव महाराजं च वाह्लिकम् ।
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥
` यथावयो यथास्थानं प्रपद्यस्व जनार्दन ।'
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् ।
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन ॥
वैशंपायन उवाच ।
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः ।
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् ।
अब्रवीत्परवीरघ्रं दाशार्हमपराजितम् ॥
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये ।
अर्धराज्यस्य गोविद विदितं सर्वराजसु ॥
तच्चेद्दद्यादखङ्गेन सत्कृत्यानवमत्य च ।
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥
अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित् ।
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥
वैशंपायन उवाच ।
एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः ।
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ॥
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रजन् ।
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥
तस्य तं निनदं श्रुत्वा संप्रावेपन्त धन्विनः ।
वाहनानि च सर्वामि शकृन्मूत्रे प्रमुस्रुवुः ॥
इत्युक्त्वा केशवं तत्र तथा चोह्वा विनिश्चयम् ।
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः ।
तूर्णमभ्यगमद्धृष्टः शैब्यसुग्रीववाहनः ॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताः ।
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥
अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः ।
ब्राह्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः ।
यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन् ॥
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः ।
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ।
` पितृदेवातिथिभ्यश्च कच्चित्पूता स्वनुष्ठिताः ॥'
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः ।
भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह ॥
किं वा कार्यं भगवतामहं किं करवाणि यः ।
केनार्थेनोपप्तंप्राप्ता भगवन्तो महीतलम् ॥
` एवमुक्ताः केशवेन मुनयः शंसितव्रताः ।
नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् ॥
अधश्शिराः सर्पमाली महर्षिः स हि देवलः ।
अर्वावसुः सुजानुश्च मैत्रेयः शुनको बली
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा ।
आपोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ ॥
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः ।
मौञ्जायनो वायुभक्षः पाराशर्योऽथ शालिकः ॥
शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः ।
श्वेतकेतुः कहोलश्च रामश्चैव महातपाः ॥'
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् ।
परिष्वज्य च गोविन्दं सुरासुरपतेः सखा ॥
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः ।
राजर्षयश्च दाशार्ह मानयन्ति तपस्विनः ॥
दैवासुरस्य द्रुष्टारः पुराणस्य महामते ।
समेत पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ।
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम् ॥
एतन्महत्प्रेक्षणीयं द्रुष्टुमिच्छाम केशव ॥
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव ।
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ॥
` सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः ।
कुरूणां प्रतिवाचश्च श्रोतुमिच्छाम माधव ॥'
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः ।
त्वं च यादवशार्दूल सभायां वै समेष्यथ ॥
तव वाक्यानि दिव्यानि तथा तेषां च माधव ।
श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च ।
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ॥
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ।
आसीनमासने दिव्ये बलतेजःसमाहितम् ॥
वैशंपायन उवाच ।
प्रयान्तं देवकीपुत्रं परवीररुजो दश ।
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥
पदातीनां सहस्रं च सादिनां च परन्तप ।
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोपरे ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्र्यशीतितमोऽध्यायः ॥
5-83-6 ऊढात् विवाहात् । श्वशुराणां गृहे इति शेषः ॥ 5-83-36 पुराणस्य दैवासुरस्य देवासुरसमुदायस्य ॥