अध्यायः 084
श्रीकृष्णप्रयाणे कुरुपराजयसूचकदुर्निमित्तसमुत्पत्तिः ॥ 1 ॥
श्रीकृष्णस्य शुभशकुनसमुदयः ॥ 2 ॥ मार्गे तत्रतत्र विपरगणाद्यश्वर्चितस्य
कृष्णस्य सायाह्ने वृकस्थलाभिगमनम् ॥ 3 ॥ तत्रत्यद्विजव्रजपूजितस्य कृष्णस्य
तद्गृहगमनागमनपूर्वकं तान्भोजयित्वा तद्रजन्यां वृकस्थले सुखसंवासः ॥ 4 ॥
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः ।
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥
वैशंपायन उवाच ।
तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः ।
तानि मे श्रृणु सर्वाणि दैवान्यौत्पातिकानि च ॥
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत ।
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः ।
विपरिता दिशः सर्वा न प्राज्ञायत किंचन ॥
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत ।
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ॥
तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा ।
न दिशो नादिशो राजन्प्रज्ञायन्तेस्म रेणुना ॥
प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत ।
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ॥
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।
आरुजन्गणशो वृक्षान्परुषोऽशनिनिःस्वनः ॥
यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत ।
तत्रतत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ॥
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥
संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः ।
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः ॥
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः ।
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ॥
स शालिभवनं रम्यं सर्वसस्यसमाचितम् ।
सुख परमधर्मिष्ठमभ्यगाद्भरतर्षभ ॥
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोपणान् ।
पुराणि च व्यतिकामन्राष्ट्राणि विविधानि च ॥
नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः ।
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः ॥
उपप्लाव्यादथागम्य जनाः पुरनिवासिनः ।
यथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥
ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् ।
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम् ॥
वृकस्थलं समासाद्य केशवः परवीरहा ।
प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति ॥
` ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः ।
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम् ॥
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।
क्षणेन चान्नपानानि ररावन्ति समार्जयन् ॥'
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः ।
मुमोच सर्वं योक्तादि मुक्त्वा चैतानवासृजत् ॥
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप ।
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम् ।
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ॥
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् ।
न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने ॥
तान्प्रभुः कृतमित्युक्ता सत्कृत्य च यथार्हतः ।
अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः ॥
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।
भुक्ता च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वमि भगवद्यानपर्वणि चतुरशीतितमोऽध्यायः ॥
5-84-2 दैवानि कशुनानि । औत्पातिकानि अशकुनानि ॥ 5-84-7
खेशरीरं छायापुरुषशरीरम् ॥ 5-84-13 भवन्ति अस्मिन्निति भवने क्षेत्रम् ॥ 5-84-16 उपप्लाव्यात् ग्रामात् ॥ 5-84-