अध्यायः 087

विदुरेण धृतराष्ट्रंप्रति कृष्णाय दानप्रतिज्ञायाः मृषात्वकथनम् ॥ 1 ॥ तथा सामाद्युपायैः कृष्णस्य दुर्वशत्वकथनपूर्वकं तदुक्तिसत्कारविधानम् ॥ 2 ॥

विदुर उवाच ।
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः ।
संभावितश्च लोकस्य संमतश्चासि भारत ॥
यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः ।
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥
लेखा शशिनिभाः सूर्ये महोर्मिरिव सागरे ।
धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः ॥
सदैव भावितो लोको गुणौघैस्तव पार्थिव ।
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥
आर्जवं प्रतिपद्यस्व मा बाल्याद्ब्रहु नीनशः ।
राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान् ॥
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु ।
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् ।
एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे ॥
मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा ।
जानामि त्वन्मतं राजन्गूढं बाह्येन कर्मणा ॥
पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप ।
न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि ॥
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि ।
अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि ॥
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया ।
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् ।
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ॥
अन्यत्कुम्भादपांपूर्णादन्यत्पादावसेचनात् ।
अन्यत्कुशलसंप्रश्नान्नैवेक्ष्यति जनार्दनः ॥
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः ।
तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः ॥
आशंसमानः कल्याणं कुरूनभ्येति केशवः ।
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥
शममिच्छति दाशार्हस्तव दुर्योधनस्य च ।
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥
पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे ।
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्ताशीतितमोऽध्यायः ॥

5-87-4 भावितः हृष्टः ॥ 5-87-5 मा नीनशः मा नाशं प्राप्नुहि ॥ 5-87-8 माया इन्द्रजालम् । छद्म वञ्चनम् ॥ 5-87-10 विभेत्स्यसि शल्यवत्पृथक्करिष्यसि ॥ 5-87-12 वेद विद्मि ॥ 5-87-13 नैवेक्ष्यति नैवाङ्गीकरिष्यति ॥ 5-87-15 उपाकुरु अर्पय ॥