अध्यायः 088

दुर्योधनेन श्रीकृष्णस्य विदुरोदीरितभेदागोचरताङ्गीकरणम् ॥ 1 ॥ तथा हेतूपन्यासपूर्वकं कृष्णस्योपायनदाननिषेधनम् ॥ 2 ॥ भीष्मेण कृष्णस्य दुरवज्ञेयत्वकथनपूर्वकं तदुक्तस्य कर्तव्यत्वकथनम् ॥ 3 ॥ दुर्योधनेन स्वस्य कृष्णबन्धनाध्यवसायकथने धृतराष्ट्रेण तद्गर्हणम् ॥ 4 ॥ भीष्मेण दुर्योधनोपालम्भपूर्वकं सभातो निर्गमनम् ॥ 5 ॥

दुर्योधन उवाच ।
यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते ।
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ॥
यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने ।
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥
देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः ।
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥
अवमानश्च यत्र स्यात्क्षत्रियस्य विशांपते ।
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥
स हि पूज्यतमो लोके कृष्णः पृथुललोचनः ।
त्रयाणामपि लोकानां विदितं मम सर्वथा ॥
न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः ।
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ॥
सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः । `नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः ।'
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः ॥
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।
वासुदेवेन तीर्थेन क्षिप्रं संशाभ्य पाण्डवैः ॥
धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः ।
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥
दुर्योधन उवाच ।
न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् ।
तैः सहेमामुपाश्रीयां यावज्जीवं पितामह ॥
इदं तु सुमहत्कार्यं श्रुणु मे यत्समर्थितम् ।
परायणं पाण्डवानां नियच्छामि जनार्दनम् ॥
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा ।
पाण्डवाश्च विधेया मे स च प्रातरिहैप्यति ॥
अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः ।
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम् ।
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥
दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः ।
अपापः कौरवेयेषु स कथं बन्धमर्हति ॥
भीष्म उवाच ।
परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः ।
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः ॥
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् ।
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन ॥
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टाशीतितमोऽध्यायः ॥

5-88-1 असंहार्यः हर्तुमशक्यः ॥ 5-88-3 देश इति । यद्यपि केशवोऽर्चामर्हत्येव तथापि अर्चायां देशः कालश्चायुक्त इत्यर्थः । तदेबाह मंस्यतीति ॥ 5-88-6 कार्यगतिः कर्तव्यरीतिः । अविग्रहात् आतिथ्यमात्रेण ॥ 5-88-8 नालं न पर्याप्तोऽसि ॥ 5-88-10 तीर्थेन अवतरणवर्त्मना । संशाम्य शान्तो भवः ॥ 5-88-12 नोपाश्रीयमित्यन्वयः । निष्केवलां कृत्स्नाम् ॥