अध्यायः 091

दुर्योधनेन स्वगृहमागतस्य श्रीकृष्णस्य पूजापूर्वकं भोजनायामन्त्रणम् ॥ 1 ॥ दुर्योधनेन श्रीकृष्णंप्रति स्वीयान्नपानाद्य नादरणकारणप्रश्ने कृष्णेन तत्कथनपूर्वकं विदुरगृहगमनम् ॥ 2 ॥ विदुरेण सादरमन्नपानादिना श्रीकृष्णाराधनम् ॥ 3 ॥

वैशंपायन उवाच ।
पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः ॥
लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् ।
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः ॥
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ।
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् ॥
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ।
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् ॥
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ।
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ॥
दुर्योधनसमीपे तानासनस्थान्ददर्श सः ।
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ॥
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ।
समेत्य धार्तराष्ट्रेण महामात्येन केशवः ॥
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ।
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ॥
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ।
तस्मिन्गां मधुपर्कं चाप्युदकं च जनार्दने ॥
निवेदयामास तदा गृहान्राज्यं च कौरवः । 5-91-10b` आसनं सर्वतोभद्रं सर्वरत्नविभूषितम् ॥
कृष्णार्थमेवं संसिद्धं धार्तराष्ट्रस्य शासनात् ।' तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ॥
उपासाञ्चक्रिरे सर्वे कुरवो राजभिः सह ।
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ॥
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ।
ततो दुर्योधनः कृष्णमब्रवीत्कुरुसंसदि ॥
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ।
कस्मादन्नानि पापानि वासांसि शयनानि च ॥
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ।
उभयोश्च ददत्साह्यमुभयोश्च हिते रतः ॥
संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव । त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः ।
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥
वैशंपायन उवाच ।
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ।
उद्यन्मेघस्वनःक काले प्रगृह्य विपुलं भुजम् ॥
अलघूकृतमग्रस्तमनिरस्तमसंकुलम् ।
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह ।
कृतर्थं मां सहामात्यं समर्चिष्यसि भारत ॥
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् ।
न युक्तं भवताऽस्मासु प्रतिपत्तुमसांप्तम् ॥
कृतार्थं वाऽकृतार्थं वा त्वां वयं मधुसूदन ।
यतामहे पूजयितुं दाशार्ह न च शक्नुमः ॥
न च तत्कारणं विद्मो यस्मान्नो मधुसूदन ।
पूजां कृतां प्रीयमाणो नामंस्थाः पुरुषोत्तम ॥
वैरं नो नास्ति भवता गोविन्द न च विग्रहः ।
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥
वैशंपायन उवाच ।
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः ।
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् ।
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथंचन ॥
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।
न च संप्रीयते राजन्न चैवापद्गता वयम् ॥
`द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् । पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः ॥'
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् ।
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते ।
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु समामनु ।
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति ।
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते ।
सोजितात्माऽजितक्रोधो न चिरं तिष्ठति श्रिया ॥
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि ।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥
सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम् ।
क्षुत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् ।
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥
निर्याय च महाबाहुर्वासुदेवो महामनाः ।
निवेशाय ययौ वेश्य विदुरस्य महात्मनः ॥
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः ।
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥
त ऊचुर्माधवं वीरं कुरवो मधुसूदनम् ।
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥
तानुवाच महातेजाः कौरवान्मधुसूदनः ।
सर्वे भवन्ते गच्छन्तु सर्वा मेऽपचितिः कृता ॥
वैशंपायन उवाच ।
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् ।
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥
ततः क्षत्राऽन्नपानानि शुचीनि गुणवन्ति च ।
उपाहरदनेकानि केशवाय महात्मने ॥
तैतर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः ।
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ॥
`भुक्तवत्सु द्विजाग्र्येषु निषण्णेषु वरासने ।
शुचिः सुप्रयतो भून्वा विदुरोऽन्नमुपारत् ॥
श्रद्धया परया युक्त इदं वचनमब्रवीत् । संवृतैस्तुष्य गोविन्द एतन्नः धनम् ।
अन्यथा हि विशेषेण कस्त्वामर्चितुमर्हति ॥
वैशंपायन उवाच ।
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः ।
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥
तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः ।
अभितुष्टुवुरासीनं दाशार्हमपराजितम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकनवतितमोऽध्यायः ॥

5-91-14 शठोदर्कं शाठ्यपर्यवसानम् । आभाष्य संबोधनोनोन्मुखीकृत्य । 5-91-17 प्रगृह्य उद्यम्य ॥ 5-91-25 संरम्भात् क्रोधात् । हेतुवादात् कपटात् ॥ 5-91-31 विरुरुत्सति विरोधं कर्तुमिच्छति ॥ 5-91-44 संवृतैः राजानर्हतया गोपितैः ॥