अध्यायः 094

प्रभाते संध्यामुपतिष्ठमानं श्रीकृष्णमभ्येत्य शकुनिदुर्योधनाभ्यां सभागमनाय प्रार्थनम् ॥ 1 ॥ श्रीकृष्णस्य विदुरेण सह सभाप्रवेशः ॥ 2 ॥ अन्तरिक्षगतेषु नारदादिषु श्रीकृष्णाज्ञया भीष्मेण आसनादिना सत्कृतेषु कृष्णादीनां यथोचितमासनेषूपवेशनम् ॥ 3 ॥

वैशंपायन उवाच ।
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा ।
शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी ॥
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः ।
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ॥
कथाभिरनुरूपाभी रक्तस्यामिततेजसः ।
अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी ॥
ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ॥
शङ्खदुन्दुमिनिर्घोषैः केशवं प्रत्यबोधयन् ॥
तत उत्थाय दाशार्हऋषभः सर्वसात्वताम् ।
सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः ॥
कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः ।
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः ॥
अथ दुर्योधनः कृष्मं शकुनिश्चापि सौबलः ।
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् ।
कुरूश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ॥
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः ।
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः ।
ददौ हिरण्यं वासांसि गाश्चाश्चांश्च परन्तपः ॥
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् ।
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ॥
` तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः ।
वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः ॥
शैब्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः ।
मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः ॥
दक्षिणं चावहच्छैब्यः सुग्रीवः सव्यतोऽवहत् ।
पृष्ठवाहौ रथस्यास्तां मेघपुष्पबलाहकौ ॥
विश्वकर्मकृताऽऽपीडा रत्नजालविभूषिता ।
आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत ॥
वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन् ।
तस्य सत्ववतः केतौ भुजगारिरशोभत ॥
तस्य कीर्तिमतस्तेन भास्वरेण विराजता ।
शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना ॥
रश्मिजालैः पताकाभिः सौवर्णेन च केतुना ।
बभूव स रथश्रेष्ठः कालसूर्य इवोदितः ॥
पक्षिध्वजवितानैश्च रुक्मजालकृताङ्गणैः ।
दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा ॥
प्रवालमणिशोभैश्च मुक्तावैडूर्यशोभनैः ।
किङ्किणीशतसङ्घैश्च वालजालकृतान्तरैः ॥
कार्तस्वरमयीभिश्च पद्मिनीभिरलङ्कृतः ।
शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः ॥
व्याघ्रसिंहवराहैश्च गोभिश्च मृगपक्षिभिः ।
ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः ॥
वज्राङ्कुशविमानैश्च कूबरावृत्तसन्धिषु । समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः ॥'
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः ॥
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः ।
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः ।
कौस्तुभं मणिमाबध्य श्रिया परमया ज्वलन् ॥
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः ।
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् ।
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम् ॥
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।
द्वितीयेन रथेनैनमन्वयातां परन्तपम् ॥
सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः ।
पृष्ठतोऽनुययुः कृष्णं गजैरश्वै रथैरपि ॥
तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः ।
गच्छतां घोषिणश्चित्ररथा राजन्विरेजिरे ॥
संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ।
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ॥
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः ।
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः ।
परिवार्य रथं शौरेरगच्छन्त परन्तपाः ॥
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः ।
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ॥
गजाः पञ्चशतास्तत्र रथाश्चासन्सहस्रशः ।
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् ।
सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम ॥
वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः ।
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ॥
स पूज्यमानः कुरुभिः संश्रृण्वन्मधुराः कथाः ।
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ॥
ततः सभां समासाद्य केशवस्यानुयायिनः ।
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥
ततः सा समितिः सर्वा राज्ञाममिततेजसाम् ।
संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥
ततोऽभ्याशंगते कृष्णे समहृष्यन्नराधिपाः ।
श्रुत्वां तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् ।
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥
नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा ।
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः ।
ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया ॥
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ ।
कृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः ॥
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः ।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर ।
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे ।
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् ।
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः ।
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् ।
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः । अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः ।
ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ॥ अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः ।
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ॥ निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ।
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ॥ पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ।
वैशंपायन उवाच ।
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् । त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ।
आसनान्यथ मृष्टानि महान्ति विपुलानि च ॥ मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ।
तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत ॥ निषसादासने कृष्णो राजानश्च यथासनम् ।
दुःशासनः सात्यकये ददावासनमुत्तमम् ॥ विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ।
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ॥ एकासने महात्मानौ निषीदतुरमर्षणौ ।
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ॥ निषसादासने राजा सहपुत्रो विशांपते ।
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ॥ संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ।
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ॥ अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ।
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ॥
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् ।
न तत्र कश्चित्किंचिद्वा व्याजहार पुमान्क्वचित् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्नवतितमोऽध्यायः ॥

5-94-31 चित्राश्च ते रथाश्च ॥ 5-94-33 एकपुष्कराः काहलाः ॥