अध्यायः 095

श्रीकृष्णेन धृतराष्ट्रंप्रति सन्ध्यर्थं स्वस्यागमनकथनम् ॥ 1 ॥ सन्धिविग्रहपक्षयोः गुणदोषपर्वनपूर्वकं पाण्डवविज्ञापननिवेदनम् ॥ 2 ॥ तथा हितमुपदिश्य अन्ते यथारुचि करणाभिधानम् ॥ 3 ॥

वैशंपायन उवाच ।
तेष्वासीनेषु सर्वेषु तूष्णींभूतेषु राजसु ।
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥
जीमूत इव धर्मान्ते सर्वां संश्रावयन्सभाम् ।
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥
श्रीभगवानुवाच ।
कुरूणां पाण्डवानां च शमः स्यादिति भारत ।
अप्रणशेन वीराणामेतद्याचितुमागतः ॥
राजन्नान्यत्प्रवक्तव्यं तव नैःश्रेयसं वचः ।
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम ॥
इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव ।
श्रुतवृत्तोपसंपन्नं सर्वैः समुदितं गुणैः ॥
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत ।
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति ।
त्वन्निमित्तं विशेषेण नेह युक्तमसांप्रतम् ॥
त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम ।
मिथ्याप्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ॥
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः ।
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥
अशिष्टा गतमर्यादा लोभेन हृतचेतसः ।
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ ॥
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत ।
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥
त्वय्यधीनः शमो राजन्मयि चैव विशांपते ।
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः ।
हितं बलवदप्येषां तिष्ठतां तव शासने ॥
तव चैव हितं राजन्पाण्डवानामथो हितम् ।
शमे प्रयतमानस्य तव शासनकाङ्क्षिणः ॥
स्वयं निष्फलमालक्ष्य संविधत्स्व विशांपते ।
सहायभूता भरतास्तवैव स्युर्जनेश्वर ॥
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः ।
न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः ।
इन्द्रोपि देवैः सहितः प्रसहेत कुतो नृपाः ॥
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥
सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः ।
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ॥
सात्यकिश्च महातेजा युयुत्सुश्च महारथः ।
को नु तान्विपरीतात्मा युद्ध्येत भरतर्षभ ॥
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम् ।
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते ।
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ॥
स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा ।
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुं ॥
एतानेव पुरोधाय यत्कृत्य च यथा पुरा ।
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत ।
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप ।
यदि संपत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥
संयुगे वै महाराज दृश्यते सुमहान्क्षयः ।
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ॥
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः ।
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः ।
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे ।
क्षीणानुभयतः शूरान्राथिनो रथिभिर्हतान् ॥
समवेताः पृथिव्यां हि राजानो राजसत्तम ।
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः ।
त्वयि प्रकृतिमापन्ने शेषः स्यात्कुरुनन्दन ॥
शुक्ला वादन्या ह्रीमन्त आर्याः पुण्याभिजातयः ॥
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ॥
शिवेनेमे भूमिपालाः समागम्य परस्परम् ।
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ॥
सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ ।
अमर्षं च निराकृत्य वैराणि च परन्तप ॥
हार्दं यत्पाण्डवेष्वासीत्प्राप्तोऽस्मिन्नायुषः क्षये ।
तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ ॥
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः ।
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः ।
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च ।
भवतः शासनाद्दुःखसमुभूतं सहानुगैः ॥
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः ।
त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम् ॥
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः ।
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ । नित्यं संक्लेशिता राजन्स्वराज्यांशं लभेमहि ।
त्वं धर्ममर्थं संजानन्सम्यङ्वस्त्रातुमर्हसि ॥ गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे ।
स भवान्मातृपितृव्रदस्मासु प्रतिपद्यताम् ॥ गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ।
वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा ॥ पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः ।
संस्थापय पथिप्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि ॥ आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ ।
धर्मज्ञेषु सभासत्सु नेह युक्तमसांप्रतम् ॥ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते ।
नचास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥
धर्म एतानारुजति यथा नद्यनुकूलजान् ॥
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ।
ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ ॥
शक्यं किमन्यद्वक्तुं ते दानादन्यञ्जनेश्वर ।
ब्रुवन्तु ते महीपालाः सभायां ये समासते ॥
धर्मार्थौ संप्रधार्यैव यदि सत्यं ब्रवीम्यहम् ।
प्रमुञ्चोमान्मृत्युपाशात्क्षत्रियान्पुरुषर्षभ ॥
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः । पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् ।
ततः सपुत्रः सिद्धार्थो भुङ्क्ष भोगान्परन्तप ॥
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा ।
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ॥
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः ।
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ॥
स तत्र विवसन्सर्वान्वशमानीय पार्थिवान् ।
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ॥
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता ।
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ॥
स तामवस्थां संप्राप्य कृष्णां प्रेक्ष्य सभां गताम् ।
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ॥
अहं तु तव तेषां च श्रेय इच्छामि भारत ।
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ॥
अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः ।
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशांपते ॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः ।
यत्ते पथ्यतमं राजंस्तस्मिंतिष्ठ परन्तप ॥
वैशंपायन उवाच ।
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् ।
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चनवतितमोऽध्यायः ॥

5-95-3 आगतः अहमिति शेषः ॥ 5-95-6 कृपा परस्य सुखार्थे यत्नः । अनुकम्पा परदुःखदर्शने त्रासः । कारुण्यं परदुःखप्रहाणार्थो यत्नः । आनृशंस्यं परदुःखाप्रदानम् ॥ 5-95-8 बाह्येषु द्यूतादिषु । आभ्यन्तरेषु जतुगृहादिषु ॥ 5-95-11 कुरुष्वेव भवत्स्वेव नतु पाण्डवेषु ॥ 5-95-14 एषामपि एषामेव ॥ 5-95-15 शासनकाङ्क्षिणः पुत्रान् शासितुमिच्छतस्तव ॥ 5-95-16 निष्फलं वैरम् । संविधत्स्व शमं कुरु ॥ 5-95-23 पाण्डवैः सह संधास्यन्ते सन्धि करिष्यन्ति ॥ 5-95-25 अखिलां निष्कण्टकाम् ॥ 5-95-33 प्रकृतिं सत्त्वगुणम् ॥ 5-95-42 स्थाता स्थास्यति ॥ 5-95-50 आरुजति हिनस्ति । अनुकूलजान् कूलं कूलमनुमृत्य जातान् वृक्षादीन् ॥ 5-95-58 परमोपधिः महच्छद्म ॥