अध्यायः 006
द्रुपदेन धृतराष्ट्रंप्रति स्वपुरोहितप्रेषणम् ॥ 1 ॥ पुरोहितस्य हास्तिनपुरगमनम् ॥ 2 ॥
द्रुपद उवाच ।
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः ॥
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥
स भवान्कृबुद्धीनां प्रधान इति मे मतिः ।
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च ।
प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च ॥
विदितं चापि ते सर्वं यथावृत्तः स कौरवः ।
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ॥
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः ।
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ॥
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् ।
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ॥
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् ।
न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ॥
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः ।
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ॥
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम् ।
भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति ॥
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च ।
पुनरेकत्र करणं तेषां कर्म भविष्यति ॥
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः ।
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ॥
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि ।
न तथा ते करिष्यन्ति सेनाकर्म न संशयः ॥
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते ।
संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ॥
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् ।
कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन् ॥
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् ।
विभेत्स्यति मनांस्येषमिति मे नात्र संशयः ॥
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् ।
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ॥
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च ।
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ॥
वैशंपायन उवाच ।
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना ।
पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् ॥
शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः ।
पाण्डवानां हितार्थाय कौरवान्प्रतिजग्मिवान् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि षष्ठोऽध्यायः ॥
5-6-2 वैद्याः विद्यावन्तः । कृतबुद्धयः सिद्धान्तज्ञाः ॥ 2 ॥