अध्यायः 105

सुमुखाय आयुर्दानश्रवणकुपितेन गरुडेन इन्द्रोपेन्द्रावभ्येत्य दर्पेक्तिः ॥ 1 ॥ उपेन्द्रेण तार्क्ष्यदर्पविमोक्षणाय तदंसे स्वदक्षबाहुविक्षेपे तद्वहनाक्षमेण तेन तत्क्षमापनम् ॥ 2 ॥ कण्वेन सुयोधनंप्रति गरुडनिदर्शनप्रदर्शनपूर्वकं गर्वपरिहारेण पाण्डवैः सह शमविधानम् ॥ 3 ॥ दुर्योधनेन ऊरुताजनपूर्वकं कण्वोपहासे तेन तं प्रति तव ऊरावेव मृत्युर्भविष्यतीति शापदानम् ॥ 4 ॥

कण्व उवाच ।
गरुडस्तत्र शुश्राव यथावृत्तं महाबलः ।
आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥
पक्षवातेन महता रुद्ध्वा त्रिभुवनं खगः ।
सुपर्णः परमक्रुद्धो वासवं समुपाद्रवत् ॥
गरुड उवाच ।
भगवन्किमवज्ञानाद्वृत्तिः प्रतिहता मम ।
कामकारवरं दत्त्वा पुनश्चलितवानसि ॥
निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे ।
आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥
वृतश्चैष महानागः स्थापितः समयश्च मे ।
अनेन च मया देव भर्तव्यः प्रसवो महान् ॥
एतस्मिंस्तु तथाभूते नान्यं हिंसितुमुत्सहे ।
क्रीडसे कामकारेण देवराज यथेच्छकम् ॥
सोऽहं प्राणान्विमोक्ष्यामि तथा परिजनो मम ।
ये च भृत्या मम गृहे प्रीतिमान्भव वासव ॥
`कण्व उवाच ।
श्रुत्वा सुपर्णवचनं सुमुखो दुर्मुखस्तदा । त्यक्त्वा रूपं विवर्णस्तु सर्परूपधरोऽभवत् ।
गत्वा विष्णुसमीपं तु पादपीठं समाश्लिषत् ॥
इन्द्र उवाच ।
न मत्कृतं वैनतेय न मां क्रोद्धुं त्वमर्हसि । दत्ताभयः स सुमुखो विष्णुना प्रभविष्णुना ।
श्रत्वा पुरन्दरेणोक्तमुवाच विनतासुतः ॥'
एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् ।
त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥
त्वयि तिष्ठति देवेश न विष्णुः कारणं मम ।
त्रैलोक्यराजराज्यं हि त्वयि वासव शाश्वतम् ॥
ममापि दक्षस्य सुता जननी कश्यपः पिता ।
अहमत्युत्सहे लोकान्समन्ताद्वोढुमोजसा ॥
असह्यं सर्वभूतानां ममापि विपुलं बलम् ।
मयाऽपि सुमहत्कर्म कृतं दैतेयविग्रहे ॥
श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।
प्रस्रुतः कालकाक्षश्च मयाऽपि दितिजा हताः ॥
यत्तु ध्वजस्थानगतो यत्नात्परिचराम्यहम् ।
वहामि चैवानुजं ते तेन मामवमन्यसे ॥
कोऽन्यो भारसहो ह्यस्ति कोऽन्योस्ति बलवत्तरः ।
मया योऽहं विशिष्टः सन्वहामीमं सबान्धवं ॥
अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।
तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥
अदित्यां य इमे जाता बलविक्रमशालिनः ।
त्वमेषां किल सर्वेषां बलेन बलवत्तरः ॥
सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।
विमृश त्वं शनैस्तात कोऽन्वत्र बलवानिति ॥
कण्व उवाच ।
स तस्य वचनं श्रुत्वा खगस्योदर्कदारुणम् ।
अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥
गरुत्मन्मन्यसेत्मानं बलवन्तं सुदुर्बलम् ।
अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥
त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे ।
अहमेवात्मनात्मानं वहामि त्वां च धारये ॥
`न त्वं वहसि मां दोर्भ्यां मोघं तव विकत्थनम् ।' इमं तावन्ममैकं त्वं बाहुं सव्येतरं वह ।
यद्येनं धारयस्येकं सफलं ते विकत्थितम् ॥
इत्युक्त्वा भगवांस्तस्य स्कन्धे बाहुं समासजत् । `आरोपितं समुद्वोढुं भारं तं नाशकद्बलात् ।'
निपपात स भारार्तो विहलो नष्टचेतनः ॥
यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।
एकस्या देहशाखायास्तावद्भारममन्यत ॥
न त्वेनं पीडयामास बलेन बलवत्तरः ।
ततो हि जीवितं तस्य न व्यनीनशदच्युतः ॥
व्यात्तास्यः स्रस्तकायश्च विचेता विह्वलः खगः ।
मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥
स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः ।
विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ॥
भगवँल्लोकसारस्य सदृशेन वपुष्मता ।
भुजेन स्वैरमुक्तेन निष्पिष्टोऽस्मि महीतले ॥
क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः ।
बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥
न हि ज्ञातं बलं देव मया ते परम विभो ।
तेन मन्याम्यहं वीर्यमात्मनो न समं परैः ॥
कण्व उवाच ।
ततश्चक्रे स भगवान्प्रसादं वै गरुत्मतः ।
मैवं भूय इति स्नेहात्तदा चैनमुवाच ह ॥
पादाङ्गुष्ठेन चिक्षेप सुमुखं गरुडोरसि ।
ततः प्रभृति राजेन्द्र सहसर्पेण वर्तते ॥
एवं विष्णुबलाक्रान्तो गर्वनाशमुपागतः ।
गरुडो बलवान्राजन्वैनतेयो महायशाः ॥
कण्व उवाच ।
तथा त्वमपि गान्धारे यावत्पाण्डुसुतान्रणे ।
नासादयसि तान्वीरांस्तावज्जीवसि पुत्रक ॥
भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।
धनञ्जयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥
विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।
एते देवास्त्वया केन हेतुना वीक्षितुं क्षमाः ॥
तदलं ते विरोधेन शमं गच्छ नृपात्मज ।
वासुदेवेन तीर्थेन कुलं रक्षितुमर्हसि ॥
प्रत्यक्षदर्शी सर्वस्य नारदोऽयं महातपाः ।
माहात्म्यस्य तदा विष्णोः सोऽयं चक्रगदाधरः ॥
वैशंपायन उवाच ।
दुर्योधनस्तु तच्छ्रुत्वा निश्वसन्भृकुटीमुखः ।
राधेयमभिसंप्रेक्ष्य जहास स्वनवत्तदा ॥
कदर्थीकृत्य तद्वाक्यमृषेः कण्वस्य दुर्मतिः ।
ऊरुं गजकराकारं ताडयन्निदमब्रवीत् ॥
यथैवेश्वरसृष्टोऽस्मि यद्भावि या च मे गतिः ।
तथा महर्षे वर्तामि किं प्रलापः करिष्यति ॥
` ततः कण्वोऽब्रवीत्क्रुद्धो दुर्योधनमपण्डितम् । यस्मादूकं ताडयसि ऊरौ मृत्युर्भविष्यति ॥' ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चाधिकशततमोऽध्यायः ॥