अध्यायः 106
निर्बन्धस्यानर्थहेतुतायां निदर्शनप्रदर्शनाय दुर्योधनंप्रति
नारदेन गालवोपाख्यानकथनारम्भः ॥ 1 ॥ विश्वामित्रेण गुरुदक्षिणानिषेधनेऽपि
निर्बन्धकारिणं गालवंप्रति एकतश्श्यामकर्णश्वेताश्वशताष्टकानयननियोगः ॥ 2 ॥
अनर्थे जातिनिर्बन्धं परार्थे लोभमोहितम् ।
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ॥
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् ।
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ॥
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः ।
सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ॥
वैशंपायन उवाच ।
उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम् ।
उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥
नारद उवाच ।
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
तिष्ठते हि सुह्यद्यत्र न बन्धुस्तत्र तिष्ठते ॥
श्रोतव्यमपि पश्यापि सुहृदां कुरुनन्दन ।
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ॥
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा ।
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ॥
सप्तर्षीणामन्यतमं वेषमास्थाय भारत ।
बभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य तु ॥
विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् ।
परमान्नस्य यत्नेन न च तं प्रत्यपालयत् ॥
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः ।
अथ गृह्णान्नमत्युष्णं विश्वामित्रोऽप्युपागमत् ॥
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ ।
विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ॥
भक्तं प्रगृह्य मूर्ध्ना वै बाहुभ्यां संशितव्रतः ।
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः ।
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत् ।
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ॥
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा ।
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।
भुक्त्वा प्रीतोस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः ।
धर्मस्य वचनात्प्रीतो विश्वामित्रस्तथाऽभवत् ॥
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः ।
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह ॥
अनुज्ञातो मया वत्स यथेष्टं गच्छ गवालव ।
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् ॥
प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ।
दक्षिणाः काः प्रयच्छामि भवते गुरुकर्मणि ॥
दक्षिणाभिरुपेतं हि कर्म सिद्ध्यति मानद ।
दक्षिणानां हि दाता वै अपवर्गेण युज्यते ॥
स्वर्गे क्रतुफलं तद्धि दक्षिणा शान्तिरुच्यते ।
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥
स जानानस्तु भगवान्खिन्नं शुश्रूषणेन वै ।
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥
असकृद्गच्छगच्छेति विश्वामित्रेण भाषितः ।
किं ददानीति बहुशो गालवः प्रत्यभाषत ॥
निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः ।
किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥
एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
अष्टौ शतानि मे देहि गच्छ गालव मा चिरम् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षडधिकशततमोऽध्यायः ॥
5-106-1 परार्थे परस्वनिमित्तम् ॥ 5-106-5 सुहृत्
प्रत्युपकारमनपेक्ष्य उपकर्ता ॥ 5-106-6 श्रोतव्यं श्रोतुं युक्तम् । निर्बन्धः
सत्यपि बलवद्बाधके तत्रैवाग्रहः ॥ 5-106-10 न प्रत्यपालयत् अन्नसिद्धिपर्यन्तं
न प्रतीक्षितवान् ॥ 5-106-11 तेन वसिष्ठेन । उपागमत् वसिष्ठसमीपम् ॥ 5-106-13
मूध्नी बाहुभ्यां च परिगृह्य । अभ्याशे समीपे आश्रमस्य ॥ 5-106-14 गौरवात्
गुरुत्वात् । बहुमानात् लोकपूज्यत्वात् । हार्देन प्रीत्या ॥ 5-106-19 शुश्रूषया
सेवया । भक्त्या आराध्यत्वज्ञानेन ॥ 5-106-21 गुरुकर्मणि ब्रह्मचर्यव्रतसमाप्तौ
सत्याम् ॥ 5-106-22 अपवर्गेण फलप्राप्त्या ॥ 5-106-23 क्रतुफलं दक्षिणाप्रद
एव प्राप्नोति । शान्तिः सर्वोपद्रवहारिणी ॥ 5-106-27 श्यामो हरितः । एकतः
बहिःप्रदेशे एव श्यामाः कर्णा येषां एकतःश्यामकर्णानाम् ॥