अध्यायः 111

गरुडेन गालवंप्रति उत्तरदिगनुवर्णनपूर्वकं अभिमतदिगभिगमनाय स्वपृष्ठाधिरोहणविधानम् ॥ 1 ॥

सपर्ण उवाच ।
यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्रुते ।
अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज ॥ 1 ॥
उत्तरस्य हिरण्यस्य परिवापस्य गालव ।
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।
नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः ॥
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः ।
`प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः ॥
न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः ।
गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते ॥
अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः । सहस्रशिरसः श्रीमानेकः पश्यति मायया ॥'
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ।
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ॥
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ।
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया ॥
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः ।
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव ॥
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः ।
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ॥
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ।
अत्र सौगन्धिकवनं नैर्ऋतैरभिरक्ष्यते ॥
शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः ।
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ॥
विमानान्युनुरूपाणि कामभोग्यानि गालव ।
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ॥
अत्र तिष्ठति वै रात्रिन्दिवाप्यत्रावतिष्ठते ।
अत्र यज्ञं समासाद्य ध्रुवं स्थाता पितामहः ॥
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ।
अत्र गङ्गामहाद्वारं रक्षन्ति द्विजसत्तम ॥
धामा नाम महात्मानो मुनयः सत्यवादिनः ।
न तेषां ज्ञायते मूर्तिर्नाकृतिर्न तपश्चितम् ॥
परिवर्तसहस्रामि कामभोज्याननि गालव । यथायथा प्रविशति तस्मात्परतरं नरः ।
तथातथा द्विजश्रेष्ठ प्रविलीयति गालव ।
नैतत्केनचिदन्येन गतपूर्वं द्विजर्षभ ॥
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ।
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ॥
अत्र विद्युत्प्रभा नाम जझिरेऽप्सरसो दश ।
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ।
अत्र राज्ञा मरुतेन यज्ञेनेष्टं द्विजोत्तम ॥
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ।
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ॥
साक्षाद्धैमवतः पुण्यो विमलः कनकाकरः ।
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ॥
वव्रे धनं महर्षिः स जैमूतं तद्धनं ततः ।
अत्र नित्यं दिशांपालाः सायंप्रातर्द्विजर्षभ ॥
कस्य कार्यं किमिति वै परिक्रोशान्ति गालव ।
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ॥
उत्तरेति परिख्याता सर्वकर्मस्तु चोत्तरा ।
एता विस्तरशस्तात तव शङ्गीर्तिता दिशः ॥
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि । उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः ।
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकादशाधिकशततमोऽध्यायः ॥

5-111-1 यस्मादिति । उत्तरेण पथा गतानां हि पापनाशः स्वर्गप्राप्तेश्च भवतीति योगाद्दुत्तरा उत्कृष्टतरा इयं दिगित्यर्थः ॥ 5-111-2 परिवापस्य स्थानस्य । दिग्न्भ्यामुपलक्षितः ॥ 5-111-3 अविधेयात्मा अजितचित्तः ॥ 5-111-5 प्रकृत्या पुरुषस्सार्धं इत्यारभ्य एकः पश्यति मायया इति पर्यन्तिं सार्धश्लोकद्वयं दाक्षिणात्येषु बहुषु कोशेषु न दृश्यते । झo पुस्तक एव वर्तते । प्रकृत्या उभया ॥ 5-111-7 सहस्रशिरस इत्यकारन्तः शब्दः ॥ 5-111-17 मूर्तिः पिण्डः । आकृतिः संस्थानविशेषः ॥ 5-111-18 परिवर्तस्रहस्राणि चतुर्युगसहस्राणि । तस्मात् हिमस्थानात् ॥ 5-111-19 प्रविलीयति हिमेन नश्यति ॥ 5-111-20 ऐलविलस्य कुबेरस्य ॥ 5-111-23 उशीरबीजे स्थाने ॥ 5-111-24 कनकाकरः जीमूतस्य उप समीपे तस्थे प्रकाशं गतः । प्रकाशनस्थेयाख्ययोश्चेति तङ् ॥ 5-111-25 वव्रे ब्राह्मणेभ्यः । मन्नामकमेतदस्त्विति ॥ 5-111-26 उत्तरा उत्कृष्टतरा ॥