अध्यायः 115

व्ययितवित्तेन ययातिना धनप्रतिनिधितया माधवीनामकस्वकन्यकासमर्पणम् ॥ 1 ॥ गरुडेन समधिगततुरगाधिगमोपायं गालवमापृच्छ्य स्वगृहगमनम् ॥ 2 ॥ गालवेन सह कन्यया हृर्यश्वनामकनृपसमीपमुपेत्य शुल्कार्पणेन कन्या कलत्रीकरणकथनम् ॥ 3 ॥

नारद उवाच ।
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥
अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥
अद्य मे सफलं जन्म तारितं चाद्य मे कलम् ।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ ॥
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे ॥
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग ।
न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे ॥
पुत्रीं दास्यामि यत्कार्यमियं संपादयिष्यति ।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥
नातः परं वैनतेय किंचित्पापिष्ठमुच्यते ।
प्रथाशानाशनं लोके देहि नास्तीति वा वचः ॥
हताशो ह्यकृतार्थः सन्हतः संभावितो नरः ।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम । `माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी ॥'
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी । सदा देवमनुष्यणामसुराणां च गालव ।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रवम् ।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥
स भवाप्रतिगृह्णातु ममैतां माधवीं सुताम् । अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो ॥ 5-115-15a` स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।' प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा ।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥
गते पतगराजे तु गालवः सह कन्यया ।
चिन्तयानः क्षमंदाने राजानं शुल्कतोऽगमत् ॥
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् ।
शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा संप्रधार्यताम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥