अध्यायः 121
ययातिंप्रति इन्द्रदूतेन पतेत्युक्तिः ॥ 1 ॥ ययातेः सत्सु
पतेयमिति स्वप्रार्थितेन्द्रवरेण नैमिषे यजतां स्वदौहित्राणां मध्ये भुवंप्रति
पतनम् ॥ 2 ॥ ययातिना तैः प्रदित्सितसुकृतफलप्रतिग्रहानभिरोचनम् ॥ 3 ॥
तत्रागतया माधव्या तेषां तद्दौहित्रमामभिधाय ययातये तेभ्यः
सुकृतफलप्रदापनपूर्वकं स्वसुकृतफलार्धदानम् ॥ 4 ॥ गालवेन
स्वतपोष्टमांशफलदानम् ॥ 5 ॥
अथ प्रचलितः स्थानादासनाच्च परिच्युतः ।
कम्पितेनेव मनसा धर्षितः शेकवाह्निना ॥
म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः ।
विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ॥
अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः ।
शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ॥
किं मया मनसा ध्यातमशुभं धर्मदूषणम् ।
येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ॥
ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा ।
अपश्यन्त निरालम्बं तं ययातिं परिच्युतम् ॥
अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः ।
ययातिमब्रवीद्राजन्द्रेवराजस्य शासनात् ॥
अतीव मदमत्तस्त्वं न कंचिन्नावमन्यसे ।
मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ॥
न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ।
पतेयं सत्स्विति वचस्त्रिरुत्त्का नहुषात्मजः ॥
पतिष्यंन्तयामास गतिं गतिमतां वरः ।
एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् ॥
चतुरोऽपश्यत नृपस्तेषां मध्ये पपात ह ।
प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः ॥
वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ।
तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् ॥
ययातिरुपजिघ्रन्वै निपपात महीं प्रति ।
भूमौ स्वर्गे च संबद्धां नदीं धूममयीमिव ।
गङ्गां गामिव गच्छन्तीमालम्ब्य जगतीपतिः ॥
श्रीमत्स्ववभृथाग्र््येषु चतुर्षु प्रतिबन्धुषु ।
मध्ये निपतितो राजा लोकपालोपमेषु सः ॥
चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु ।
पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये ॥
तमाहुः पार्थिवाः सर्वे दीप्यमानमिव श्रिया ।
को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ॥
यक्षो वाऽप्यथवा देवो गन्धर्वो राक्षसोऽपि वा ।
न हि मानुषरूपोसि कोवार्थः काङ्क्ष्यते त्वया ॥
ययातिरुवाच ।
ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः ।
पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ॥
राजान ऊचुः ।
सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ ।
सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ॥
ययातिरुवाच ।
नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियोऽह्यहम् ।
न च मे प्रवणा बुद्धिः परपुण्यविनाशने ॥
नारद उवाच ।
एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् ।
माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ॥
किमागमनकृत्यं ते किं कुर्मः शासनं तव ।
आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ॥
नारद उवाच ।
तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा ।
पितरं समुपागच्छद्ययातिं सा ववन्द च ॥
स्पृष्ट्वा मूर्धनि तान्पुत्रांस्तापसी वाक्यमब्रवीत् ।
दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ॥
इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ।
अहं ते दुहिता राजन्माधवी मृगचारिणी ॥
मयाऽप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ।
यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः ॥
तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ।
नारद उवाच ।
ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा ॥
अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ।
उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् ।
मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ।
` राजान ऊचुः ।
राजधर्मगुणोपेताः सत्यधर्मगुणान्विताः ।
दौहित्रास्ते वयं राजन्दिवमारोह पार्थिव ॥
नारद उवाच ।'
अथाकस्मादुपगतो गालवोऽप्याह पार्थिवम् ।
तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥
5-121-10 शिबिरौशीनर इत्येकः ॥ 5-121-13 प्रतिबन्धुषु
दौहित्ररूपेषु ॥ 5-121-15 बन्धुः पालयिता ॥ 5-121-29 अष्टभागेन अष्टमांशेन ॥