अध्यायः 130

मातृवाक्यमनादृत्य निर्गतेन दुर्योधनेन कर्णादिभिः सहालोच्य कृष्णबन्धननिर्धारणम् ॥ 1 ॥ इङ्गितज्ञेन सात्यकिना कृष्णादिषु तन्नवेदनम् ॥ 2 ॥ धृतराष्ट्रेण पुनर्दुर्योधनमानाय्य कृष्णस्य दुर्ग्रहत्वनिरूपणम् ॥ 3 ॥ विदुरेण संगृह्य कृष्ण चरित्रनिरूपणपूर्वकं दुर्योधनगर्हणम् ॥ 4 ॥

वैशंपायन उवाच ।
तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् ।
पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ॥
ततः सभाया निर्गम्य मन्त्रयामास कौरवः ।
सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥
` दुर्योधनं धार्तराष्ट्रं कर्णं दुःशासनोऽब्रवीति । नोचेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः ।
बद्ध्वैव त्वां प्रदास्यन्ति पाण्डुपुत्राय भारत ॥
वैकर्तनं त्वां च मां च त्रीनेतान्भरतर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मद्रोणौ पिता च ते ॥
दुःशासनस्य तद्वाक्यं निशम्य भरतर्षभ ।
दुर्योधनो धार्तराष्ट्रो निश्वस्य प्रहसन्निव ॥
एकान्तमुपसृत्येह मन्त्रं पुनरमन्त्रयत् । सौबलेन मताक्षेण राज्ञा शकुनिना सह ॥'
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।
दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ॥
पुराऽयमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः ।
सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥
वयमेव हृषीकेशं निगृह्णीम बलादिव ।
प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ॥
श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः ।
निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ॥
अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च । अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् ।
निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ॥
तस्माद्वयमिहैवैकं केशवं क्षिप्रकारिणम् ।
क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ॥
वैशंपायन उवाच ।
तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् ।
इङ्गितज्ञः कविः क्षिप्रमन्वबुद्ध्यत सात्यकिः ॥
तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः ।
अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ॥
व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः ।
यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकारिणे ॥
स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव ।
आचष्ट तमभिप्रायं केशवाय महात्मने ॥
धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत ।
तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ॥
धर्मादर्थाच्च कामाच्च कर्म साधुविगर्हितम् ।
मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथंचन ॥
पुरा विकुर्वते मूढाः पापात्मानः समागताः ।
धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ॥
इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः ।
पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ॥
सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् ।
धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ॥
राजन्परीतकालास्ते पुत्राः सर्वे परन्तप ।
असक्यमयशस्यं च कर्तुं कर्म समुद्यताः ॥
इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च ।
निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ॥
इमं पुरुषशार्दूलमप्रधृष्यं दुरसदम् ।
आसाद्य नभविष्यन्ति पतङ्गा इव पावकम् ॥
अयमिच्छन्हि तान्सर्वान्युध्यमानाञ्जनार्दनः ।
सिंहो नागानिव क्रुद्धो गमयेद्यमसादनम् ॥
न त्वयं निन्दितं कर्म कुर्यात्पापं कथंचन ।
न च धर्मादपक्रामदेच्युतः पुरुषोत्तमः ॥
` यथा वाराणसी दग्धा साश्वा सरथकुञ्जरा ।
सानुबन्धस्तु कृष्णेन काशीनामृषभो हतः ॥
तथा नागपुरं दग्ध्वा शङ्खचक्रगदाधरः ।
स्वयं कालेश्वरो भूत्वा नाशयिष्यति कौरवान् ॥
पारिजातहरं ह्येनमेकं यदुसुखावहम् ।
नाभ्यवर्तत संरब्धो वृत्रहा वसुभिः सह ॥
प्राप्य निर्मोचने पाशान्षट्सहस्रांस्तरस्विनः ।
हृतास्ते वासुदेवेन ह्युपसङ्क्रम्य कौरवान् ॥
द्वारमासाद्य सौभस्य विधूय गदया गिरिम् ।
द्युमत्सेनः सहामात्यः कृष्णेन विनिपातितः ॥
शेषवत्त्वात्कुरूणां तु धर्मापेक्षी तथाऽच्युतः ।
क्षमते पुण्डरीकाक्षः शक्तः सन्पापकर्मणाम् ॥
एते हि यदि गोविन्दमिच्छन्ति सह राजभिः ।
अद्यैवातिथयः सर्वे भविष्यन्ति यमस्य ते ॥
यथा वायोस्तृणाग्रणि वशं यान्ति बलीयसः ।
तथा चक्रभृतः सर्वे वशमेष्यन्ति कौरवाः ॥
वैशंपायन उवाच ।'
विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् ।
धृतराष्ट्रमभिप्रेक्ष्य सुहृदां श्रृण्वतां मिथः ॥
राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा ।
एते वा मामहं वैनाननुजानीहि पार्थिव ॥
एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे ।
न त्वहं निन्दितं कर्म कुर्यां पापं कथंचन ॥
पाण्डवार्थे हि लुभ्यन्तः स्वार्थान्हास्यन्ति ते सुताः ।
एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ॥
अद्यैव ह्यहमेनांश्च ये चैनाननु भारत ।
निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ॥
` एष मे निश्चयो राजन्यद्येषोऽस्य विनिश्चयः ।
नर्दन्तु सहिताः शङ्खाः पणवानकनिस्वनैः ॥
अनायासेन पार्थानां पर्वतां च शिवं महत् । निगृह्य राजन्पार्थेभ्यो दद्यां चेत्सुकृतं भवेत् ॥'
इदं तु न प्रवर्तेयं निन्दितं कर्म भारत ।
सन्निधौ ते महाराज क्रोधजं पापबुद्धिजम् ॥
एष दुर्योधनो राजन्यथेच्छति तथाऽस्तु तत् ।
अहं तु सर्वांस्तनयाननुजानामि ते नृप ॥
एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत ।
क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ॥
सहमित्रं सहामात्यं ससोदर्यं सहानुगम् ।
शक्नुयां यदि पन्थानमवतारयितुं पुनः ॥
ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्मभाम् ।
अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥
अथ दुरोयधनं राजा धृतराष्ट्रोऽभ्यभाषत ।
कर्णदुःशासनाभ्यां च राजभिश्चापि संवृतम् ॥
नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् ।
पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ॥
अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् ।
यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ॥
त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् ।
पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ॥
यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः ।
तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ॥
देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः ।
न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ॥
दुर्ग्राह्यः पाणिना वायुर्दुस्पर्शः पाणिना शशी ।
दुर्धरा पृथिवी मूर्ध्ना दुर्ग्राह्यः केशवो बलात् ॥
इत्युक्ते धृतराष्ट्रेण क्षत्ताऽपि विदुरोऽब्रवीत् ।
दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ॥
दुर्योधन निबोधेदं वचनं मम सांप्रतम् । सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः ।
शिलावर्षेण महता छादयामास केशवम् ॥
ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् ।
ग्रहीतुं नाशकच्चैनं तं त्वं प्रार्थयसे बलात् ॥
प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः ।
ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ॥
अनेकयुगवर्षायुर्निहत्य नरकं मृधे ।
नीत्वा कन्यासहस्राणि उपयेमे यथाविधि ॥
निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः ।
ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ॥
अनेन हि हता बाल्ये पूतना शिशुना तदा ।
गोवर्धनो धारितश्च गवार्थे भरतर्षभ ॥
अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः ।
अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ॥
जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् ।
बाणाश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ॥
वरुणो निर्जितो राजा पावकश्चामितौजसा ।
पारिजातं च हरता जितः साक्षाच्छचीपतिः ॥
एकार्णवे च स्वपता निहतौ मधुकैटभौ ।
जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ॥
अयं कर्ता न क्रियते कारणं चापि पौरुषे ।
यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ॥
तं न बुध्यसि गोविन्द घोरविक्रममच्युतम् ।
आशीविषमिव क्रूद्धं तेजोराशिमनिन्दितम् ॥
प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् ।
पतङ्गोऽग्निमिवासाद्य सामात्यो नभविष्यसि ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥

5-130-9 वैरोचनिं बलिम् ॥ 5-130-18 कर्म दूतनिग्रहाख्यम् ॥ 5-130-38 पाण्डवार्थे पाण्डवधने ॥ 5-130-42 इदं तु कर्म कर्तुमिति शेषः ॥ 5-130-49 निर्मोचने नगरविशेषे ॥