अध्यायः 131
श्रीकृष्णेन सभायां विश्वरूपप्रदर्शनम् ॥ 1 ॥ कृष्णप्रसादाल्लब्धचक्षुषा धृतराष्ट्रेण कृष्णं दृष्टवता वक्षुषा इतरेषामदि दृक्षया कृष्णवरात्पुनः स्वचक्षुषोरन्तर्धानाधिगमः ॥ 2 ॥ कृष्णेन तद्रूपोपसंहारपूर्वकं पूर्वरूपं स्वीकृत्य रथाधिरोहणेन कुन्तीसमीपगमनम् ॥ 3 ॥
वैशंपायन उवाच ।
विदुरेणैवमुक्तस्तु केशवः शत्रुपूगहा ।
दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन ।
परिभूय सुदुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः ।
इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥
एवमुक्त्वा जाहासोच्चैः केशवः परवीरहा ।
तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ।
`युगपच्च विनिष्पेतुः साक्षात्सर्वास्तु देवताः ॥'
अङ्गुष्ठमात्रास्त्रिदशा बभूवुः पावकार्चिषः ।
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् ॥
लोकपाला भुजेष्वासन्नग्निरास्यादजायत ।
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि ॥
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ।
बभूवुश्चैव यक्षाश्च गन्धर्वोरगराक्षसाः ॥
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ ।
दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः ।
अन्धका वृष्णयश्चैव प्रद्युम्नपरमुखास्ततः ॥
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः ।
शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च ।
नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥
नेत्राभ्यां नासिकाभ्यां च श्रोत्राभ्यां च समन्ततः ।
प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥
रोमकूपेषु च तथा सूर्यस्येव मरीचयः ।
`सहस्रचरणः श्रीमाञ्शतबाहुः सहस्रदृक् ॥'
तस्य वै नागलोकश्च गुल्फाधो ददृशे तदा ।
चन्द्रसूर्यौ तथा नेत्रे ग्रहः वै सर्वतः स्थिताः ॥
ऊर्ध्वलोकाश्च सर्वेऽपि कुक्षौ तस्य व्यवस्थिताः ।
सरितः सागराश्चैव स्वेदस्तस्य महात्मनः ॥
अस्थीनि पर्वताः सर्वे वृक्षा रोमाणि तस्य हि ।
निमेषणं रात्र्यहनी जिह्वायां शारदा तथा ॥ '
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः ।
न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥
ऋत द्रोणं च भीष्मं च विदुरं च महामतिम् ।
संजयं धृतराष्ट्रं च ऋषींश्चैव तपोधनान् ॥
प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥
`धृतराष्ट्राय प्रददौ भगवान्दिव्यचक्षुषी ।
ददर्श परमं रूपं धृतराष्ट्रोऽम्बिकासुतः ॥
ततो देवाः सगन्धर्वाः किन्नराश्च महोरगाः ।
ऋषयश्च महाभागा लोकपालैः समन्विताः ।
प्रणम्य शिरसा देवं तुष्टुवुः प्राञ्जलिस्थिताः ॥
क्रोधं प्रभो संहर संहर स्वं
रूपं च यद्दर्शितमात्मसंस्थम् ।
यावत्त्विमे देवगणैः समेता
लोकाः समस्ता भुवि नाशमीयुः ॥
त्वं च कर्ता विकर्ता च त्वमेव परिरक्षसे ।
त्वया व्याप्तमिदं सर्वं जगत्स्थावरजङ्गमम् ॥
कियन्मात्रा महीपालाः किंवीर्याः किंपराक्रमाः ।
तेषामर्थे महाबाहो दिव्यं रूपं प्रदर्शिवान् ।
एवमुच्चारिता वाचः सह देवार्विभुं तदा ॥'
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले ।
देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥
धृतराष्ट्र उवाच ।
त्वमेव पुण्डरीकाक्ष सर्वस्य जगतो हितः ।
तस्मान्मे यादवश्रेष्ठ प्रसादं कर्तुमर्हसि ॥
भगवन्मम नेत्राभ्यामन्तर्धानं वृणे पुनः ।
भवन्तं दृष्टवानस्मि नान्यं द्रष्टुमिहोत्सहे ॥
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
अदृश्यमाने नेत्रे द्वे भवेतां कुरुनन्दन ॥
तत्राद्भुतं महाराज धृतराष्ट्रश्च चक्षुषी ।
लब्धवान्वासुदेवाच्च विश्वरूपदिदृक्षया ॥
लब्धचक्षुषमासीनं धृतराष्ट्रं नराधिपाः ।
विस्मिता ऋषिभिः सार्धं तुष्टुवुर्मधुसूदनम् ॥
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे ।
विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् ।
तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिन्दमः ॥
ततः सात्यकिमादाय पाणौ विदुरमेव च ।
ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः ।
तस्मिन्कोलाहले वृत्ते तदद्भुतमिवाभवत् ॥
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः ।
अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतम् ॥
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् ।
निश्चक्राम ततः शौरिः सधूम इव पावकः ॥
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
हेमजालविचित्रेण लघुना मेघनादिना ॥
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना ।
शैब्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥ 5-131-39aतथैव
रथमास्थाय कृतवर्मा महारथः ।
वृष्णीनां संमतो वीरो हार्दिक्यः समदृश्यत ॥
उपस्थितरथं शौरिं प्रयास्यन्तमरिन्दमम् ।
धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥
यावद्बलं मे पुत्रेषु पश्यतस्ते जनार्दन ।
प्रत्यक्षं ते न ते किंचित्परोक्षं शत्रुकर्शन ॥
कुरूणां शममिच्छन्तं यतमानं च केशव ।
विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव ।
ज्ञातमेव हितं वाक्यं यन्मयोक्तः सुयोधनः ॥
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः ।
शमे प्रयतमानं मां सर्वयत्नेन माधव ॥
वैशंपायन उवाच ।
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनार्दनः ।
द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि ।
यथा चाशिष्टवन्मन्दो रोषादद्य समुत्थितः ॥
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः ।
आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभ ।
अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः ।
अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥
ततो रथेन शुभ्रेण महता किङ्किणीकिना ।
कुरूणां पश्यतां द्रष्टुं स्वसारं स पितुर्ययौ ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥
5-131-28 अदृश्यमाने दर्शनशक्तिरहिते ॥ 5-131-38 वरूथिना रथगुप्तिमता ॥ 5-131-46 मन्दो दुर्योधनः ॥