अध्यायः 154

गुरुवधभयात् कर्तव्यमौढ्यमुपगतेन युधिष्ठिरेण कर्तव्यनिर्धारणप्रार्थना ॥ 1 ॥ कृष्णेन युद्धकरणनिर्धारणम् ॥ 2 ॥ पुनर्युधिष्ठिरस्य शङ्कायां अर्जुनेन कुन्तीविदुरवचनानुस्मारणेन तत्परिहरणम् ॥ 3 ॥

वैशंपायन उवाच ।
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः ।
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽऽब्रवीदिदम् ॥
अस्मिन्नभ्यागते काले किंच नः क्षममच्युत ।
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥
विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः ।
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः ।
क्षमं यन्नो महाबाहो तद्ब्रवीह्यविचारयन् ॥
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः ।
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ॥
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् ।
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा ।
मम वा भाषितं किंचित्सर्वमेवातिवर्तते ॥
नैष कामयते धर्मं नैष कामयते यशः ।
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥
बन्धमाज्ञापयामास मम चापि सुयोधनः ।
न च तं लब्धवान्कामं दुरात्मा पापनिश्चयः ॥
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः ।
सर्वे तमनुवर्तन्ते ऋते विदुरमुच्युत ॥
शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥
किंच तेन मयोक्तेन यान्यभाषत कौरवः ।
संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥
पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः ।
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ॥
न चापि वयमत्यर्थं परित्यागेन कर्हिचित् ।
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् ।
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥
युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् ।
योगमाज्ञापयामास भीमार्जुनयमैः सह ॥
ततः किलकिलाभूतमनीकं पाण्डवस्य ह ।
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः ।
निश्वसन्भीमसेनं च विजयं चेदमब्रवीत् ॥
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया ।
सोयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः ।
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति ।
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ॥
वैशंपायन उवाच ।
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः ।
यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च ।
वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः ।
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ॥
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।
स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन् ॥
ततस्ते धृतसंकल्पा युद्धाय सह सैनिकाः ।
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि चतुःपञ्चशदधिकशततमोऽध्यायाः ॥

5-154-13 युक्तं सम्यक् ॥ 5-154-14 न कल्याणं अकल्याणं पापं अकल्याणं च त्वदीयेष्वविद्यमानं सर्वं तस्मिन् दुर्योधने प्रतिष्ठितम् ॥ 5-154-15 परित्यागेन राज्यस्योपेक्षया शमं नेच्छामः ॥ 5-154-17 योगं युद्धोद्योगम् ॥ 5-154-20 यदर्थं यन्निवृत्त्यर्थम् । अनर्थः कुलक्षयः । प्रयत्नतो बलात् ॥ 5-154-25 अयुध्यतस्तव निवर्तितुमपि न युक्तम् ॥