अध्यायः 011

ऋषिभिर्देवैश्च नहुपस्य वरदानपूर्वकमिन्द्रराज्ये अभिषेचनम् ॥ 1 ॥ कदाचन स्वावलीकनेन कलुषितमनसा नहुपेण काम्यमानायै इन्द्राण्यै बृहस्पतिना अभयप्रदानम् ॥ 2 ॥

शल्य उवाच ।
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदिवेश्वराः ।
अयं वै नहुपः श्रीमान्देवराज्येऽभिषिच्यताम् ॥
तेजस्वी च यशस्वी च धार्मिकश्चैव नित्यदा ।
ते गत्वा त्वब्रुवन्सर्वे राजा नो भव पार्थिव ॥
स तानुवाच नहुषो देवानृपिगणांस्तथा ।
पितृभिः सहितान्राजन्परिप्सन्हितमात्मनः ॥
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालने ।
बलवाञ्ज्ञायतां कश्चिद्बलं शक्रे हि नित्यदा ॥
तमब्रुवन्पुनः सर्वे देवा ऋषिपुरोगमाः ।
अस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥
परस्परभयं घोरमस्माकं हि न संशयः ।
अभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥
देवदानवयक्षाणामृषीणां रक्षसां तथा । पितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम् ।
तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ।
धर्मं पुरस्कृत्य सदा सरवलोकाधिपो भव ॥
ब्रह्मर्षीश्चापि देवांश्च गोपायस्व त्रिविष्टपे ।
शल्य उवाच ।
अभिषिक्तः स राजेन्द्र ततो राजा त्रिविष्टपे ॥
धर्मं पुरस्कृत्य तदा सर्वलोकाधिपोऽभवत् ।
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपे ॥
धर्मात्मा सततं भूत्वा कामात्मा समपद्यत ।
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु च ॥
कैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वते ।
सह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥
अप्सरोभिः परिवृतो देवकन्यासमावृतः ।
नहुषो देवराजोऽथ क्रीडन्बहुविधं तदा ॥
श्रृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराः ।
वादित्राणि च सर्वाणि गीतं च मधुरस्वनम् ॥
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाः ।
ऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताः ॥
मारुतः सुरभिर्वाति मनोज्ञः सत्वशीतलः ।
एवं विक्रीडतस्तस्य नहुषस्य दुरात्मनः ॥
संप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ।
स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदः ॥
इन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ।
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरः ॥
आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ।
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच ह ॥
रक्ष मां नहुषाद्ब्रह्मंस्त्वामस्मि शरणं गता ।
सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसे ॥
देवराजस्य दयितामत्यन्तं सुखभागिनीम् ।
अवैधव्येन युक्तां चाप्येकपत्नीं पतिव्रदाम् ॥
उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ।
नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वर ॥
तस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ।
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम् ॥
यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ।
द्रक्ष्यसे देवराजं तमिन्द्रं शीघ्रमिहागतम् ॥
न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि ते ।
समानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥
अथ शुश्राव नहुष इन्द्राणीं शरणीं गताम् ।
बृहस्पतेरङ्गिरसश्रुक्रोध स नृपस्तदा ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि एकादशोऽध्यायः ॥

5-11-2 नोऽस्माकं राजा भव ॥ 2 ॥