अध्यायः 156
दुर्योधनेन भीष्मंप्रति सैनापत्यस्वीकारप्रार्थना ॥ 1 ॥ भीष्मेण
समयप्रतिज्ञाकरणपूर्वकं सैनापत्याङ्गीकारः ॥ 2 ॥ दुर्योधनेन भीष्मस्य
सैनापत्येऽभिषेचनपूर्वकं सेनाभिः सह कुरुक्षेत्रगमनम् ॥ 3 ॥
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः ।
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥
ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥
नहि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् ।
शौर्यं च वलनेतॄणां स्पर्धते च परस्परम् ॥
श्रूयते च महाप्राज्ञ हैहयानमितौजसः ।
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥
तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह ।
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥
ते स्म युद्धे प्रभज्यन्ते त्रयो वर्णाः पुनः पुनः ।
क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम् ॥
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विचसत्तमाः ।
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥
वयमेकस्य श्रृणुमो महाबुद्धिमतो रणे ।
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् ।
नये सुकुशलं शूरमजयन्क्षत्रियांस्ततः ॥
एवं ये कुशलं शूरं हितेप्सितमकल्पषम् ।
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥
भवानुशनसा तुल्यो हितैषी च सदा मम ।
असंहार्थः स्थितो धर्मे स नः सेनापतिर्भव ॥
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः ।
कुबेर इव यक्षाणां देवानामिव वासवः ॥
पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा ।
कुमार इव देवानां वसूनामिव हव्यवाट् ॥
भवता हि वयं गुप्ताः शत्रेणेव दिवौकसः ।
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥
प्रयातु नो भवानग्रे देवानामिव पावकिः ।
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥
भीष्म उवाच ।
एवमेतन्महाबाहो यथा वदसि भारत ।
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥
अपि चैव मया श्रोयो वाच्यं तेषां नराधिप ।
संयोद्धव्यं तवार्थाय यथा मे समयः कृतः ॥
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ।
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् ॥
स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः ।
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् ।
कुर्यावास्त्रबलेनैव ससुरासुरराक्षसम् ॥
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप ।
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥
एवमेषां फरिष्यामि निधनं कुरुनन्दन ।
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥
सेनापतिस्त्वहं राजन्समयेनापरेण ते ।
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते ।
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥
कर्ण उवाच ।
नाहं जीवति गाङ्गेये राजन्योत्स्ये कथंचन ।
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥
वैशंपायन उवाच ।
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् ।
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥
ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः ।
वादयामासुव्यग्रा वादका राजशासनात् ॥
सिंहनादाश्च विविधा वाहनानां च निःस्वनाः ॥
निर्घार्ताः पृथिवीकम्पा गजबृंहितनिःस्वनाः ।
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे ।
शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम् ॥
सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् ।
तदैतान्युग्ररूपाणि बभूवुः शतशो नृप ॥
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् ।
वाचयित्वा द्विजश्रेष्ठान्गोभिर्निष्कैश्च भूरिशः ॥
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः ।
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ॥
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः ।
शिबिरं मापयामास समे देशे जनाधिप ॥
मधुरानूषरे देशे प्रभूतयवसेन्धने ।
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥ ॥
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि
षट्पञ्चाशदधिकशततमोऽध्यायः ॥
5-156-15 पावकिः कार्तिकेयः ॥ 5-156-19 विवृतो विस्पष्टो
भूत्वेत्यर्थः ॥ 5-156-20 निर्मनुष्यं निर्जनम् ॥ 5-156-21 सदा प्रत्यहम् ॥ 5-156-29 पातयन्तः मूर्च्छितानि कुर्वन्तः ॥