अध्यायः 161

उलूकेन पाण्डवानुपेत्य युधिष्ठिरार्जुनौप्रति दुर्योधनसन्देशकथनम् ॥ 1 ॥

सञ्जय उवाच ।
सेनानिवेशं संप्राप्तः कैतव्यः पाण्डवस्य ह ।
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम ।
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥
युधिष्ठिर उवाच ।
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः ।
यन्मत्तं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥
सञ्जय उवाच ।
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् ।
सृञ्जयानां च मत्स्यानां कृष्णस्य च यशस्विनः ॥
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ।
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥
उलूक उवाच ।
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः ।
श्रृण्वतां कुरुवीराणां तन्निबोध युधिष्ठिर ॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासितः ।
संवत्सरं विराटस्य दास्यमास्थाय चोषितः ॥
अमर्षं राज्यहरणं वनवासं च पाण्डव ।
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव ।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥
लोहाभिसारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।
समः पन्था भृतास्तेश्वाः श्वो युध्यस्व सकेशवः ॥
असमागम्य भीष्मेण संयुगे किं विकत्थसे ।
आरुरुक्षुर्यथा पङ्गुः पर्वतं गन्धमादनम् ॥
एवं कत्थसि कौन्तेय अकत्थन्पुरुषो भव ।
सूतपुत्रं सुदुर्घर्षं शल्यं च बलिनां वरम् ॥
द्रोणं च बलिनां श्रेष्ठं शचीपतिसमं युधि ।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तगं द्वयोः ।
युधि धुर्यमविक्षोभ्यमनीकचरमच्युतम् ॥
द्रोणं महाद्युतिं पार्थ जेतुमिच्छसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥
को ह्यस्ति जीविताकाङ्क्षी प्राप्येममरिमर्दनम् ।
गजो वाजी रथो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा ।
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥
किं दुर्दुरः कूपशयो यथेमां न बुध्यमे राजचमूं समेताम् ।
दुराधरषां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै- रुदीच्यकाम्भोजशकैः खशैश्च ।
साल्वैः समत्स्यैः कुरुमुख्यदेश्यै- र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥
नानाजनौघं युधि संप्रवृद्धं नाङ्गं यथा वेगमपारकणीयम् ।
मां च स्थितं नागबलस्य मध्ये युयुत्समे मन्द किमल्पबुद्धे ॥
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् ।
अभ्यवृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥
अकत्थमानो युध्यस्व कत्थेसेऽर्जुन किं बहु ।
पर्यायात्सिद्धिरेस्य नैतत्सिध्यति कत्थनात् ॥
यदीदं कत्थनाल्लोके सिध्येत्कर्म धनञ्जय ।
सर्वे भवेयुः सिद्धार्थाः कत्थने को हि दुर्गतः ॥
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् ।
जानाम्येतत्त्वादृशो नास्ति योद्धा जानानस्ते राज्यमेतद्धरामि ॥
न तु पर्यायधर्मेण राज्यं प्राप्नोति मानुषः ।
मनसैवानुकूलानि विधाता कुरुते वशे ॥
त्रयोदश समा भुक्तं राज्यं विलपतस्तव ।
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणैर्जितः ।
क्व तदा भीमसेनस्य बलमासीच्च फाल्गुना ॥
सगदाद्भीमसेनाद्वा पार्थाद्वापि सगाण्डिवात् ।
न वै मोक्षस्तदा वोभूद्विना कृष्णामनिन्दिताम् ॥
सा वो दास्ये समापन्नान्मोचयामास पार्षती ।
अमानुष्यं समापन्नान्दासकर्मण्यवस्थितान् ॥
अवोचं यत्षण्डतिलानहं वस्तथ्यमेव तत् ।
धृता हि वेणी पार्थेन विराटनगरे तदा ॥
सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥
एवमेतत्सदां दण्डं क्षत्रियाः क्षत्रिये दधुः ।
वेणीं कृत्वा षण्डवेषः कन्यां नर्तितवानसि ॥
न भयाद्वासुदेवस्य न चापि तव फाल्गुन ।
राज्यं प्रतिप्रदाकस्यामि युद्ध्यस्व सहकेशवः ॥
न माया हीन्द्रजालं वा कुहका वापि भीषणा ।
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥
वासुदेवसहस्रं वा फाल्गुनानां शतानि वा ।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दशः ॥
संयुगं गच्छ भूष्मेण भिन्धि वा शिरसा गिरिम् ।
तरेमं वा महागाधं सौमदत्तितिमिङ्गिलम् ॥
शारद्वतमहामीनं विविंशतिमहोरगम् । बृहद्बलमहोद्वेलं सौमदत्तिकतिमिङ्गितम् ॥
भीष्मवेगमपर्यन्तं द्रोणग्राहदुरासदम् ।
कर्णशल्यझषावर्तं काम्भोजबडबासुखम् ॥
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् ।
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः ।
भविष्यसि त्वं हतसर्वबान्धव- स्तदा मनस्ते परितापमेष्यति ॥
तदा मनस्ते त्रिदिवादिवाशुचे- र्निवर्तिता पार्थ महीप्रशासनात् ।
प्रशाम्य राज्यं हि सुदुर्लभं त्वया बुभूषितः स्वर्ग इवातपस्विना ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि उलूकदूतागमनपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥