अध्यायः 177

अकृतव्रणेन सविमर्शं भीष्मस्य प्रतीकारनिर्धारणम् ॥ 1 ॥ अम्बया परेद्युरागतं जामदग्न्यंप्रति भीष्मवधप्रार्थना ॥ 2 ॥

अकृतव्रण उवाच ।
दुःख द्वयोरिदं भद्रे कतरस्य चिकीर्षसि ।
प्रतिकर्तव्यमबले तत्त्वं वत्से वदस्व मे ॥
यदि सौभपतिर्भद्रे नियोक्तव्यो मतस्तव ।
नियोक्ष्यति महात्मा स रामस्त्वद्धितकाम्यया ॥
अथापगेयं भीष्मं त्वं रामेणेच्छसि धीमता ।
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते ।
यदत्र ते भृशं कार्यं तदद्यैव विचिन्त्यताम् ॥
अम्बोवाच ।
अपनीतास्मि भीष्मेण भगवन्नविजानता ।
नाभिजानाति मे भीष्मो ब्रह्मन्साल्वगतं मनः ॥
एतद्विचार्य मनसा भवानेतद्विनिश्चयम् ।
विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथवा पुनः ।
उभयोरेव वा ब्रह्मन्युक्तं यत्तत्समाचर ॥
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् ।
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ॥
अकृतव्रण उवाच ।
उपपदमिदं भद्रे यदेवं वरवर्णिनि ।
धर्मं प्रतिवचो ब्रूयाः श्रृणु चदं वचो मम ॥
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् ।
साल्वस्त्वा शिरसा भीरु गृह्णीयाद्रामचोदितः ॥
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि ।
संशयः साल्वराजस्य तेन त्वयि सुमध्यमे ॥
भीष्मः पुरुषमानी च जितकाशी तथैव च ।
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं तव ॥
अम्बोवाच ।
ममाप्येष सदा ब्रह्मन्हृदि कामोऽभिवर्तते ।
घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥
भीष्मं वा साल्वराजं वा यं वा दोषेण गच्छसि ।
प्रशाधि तं महाबाहोयत्कृतेऽहं सुदुःखिता ॥
भीष्म उवाच ।
एवं कथयतामेव तेषां स दिवसो गतः ।
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा ।
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ॥
धनुष्पाणिरदीनात्मा खङ्गं बिभ्रत्परश्वधी ।
विरजा राजशार्दूल सृञ्जयं सोऽभ्ययान्नृपम् ॥
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः ।
तस्थुः प्राञ्जलयो राजन्सा च कन्या तपस्विनी ॥
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् ।
अर्चितश्च यथान्यायं निषसाद सहैव तैः ॥
ततः पूर्वव्यतीतानि कथयन्तौ स्म तावुभौ ।
आसातां जामदग्न्यश्च सृञ्जयश्चैव भारत ॥
तथा कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् ।
उवाच मधुरं काले रामं वचनमर्थवत् ॥
रामेयं मम दौहित्री काशिराजसुता प्रभो ।
अस्याः श्रृणु यथातत्त्वं कार्यं कार्यविशारद ॥
परमं कथ्यतां चेति तां रामः प्रत्यभाषत ।
ततः साभ्यवदद्रामं ज्वलन्तमिव पावकम् ॥
ततोऽभिवाद्य चरणौ रामस्य शिरसा शुभौ ।
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥
रुरोद सा शोकवती बाष्पव्याकुललोचना ।
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥
राम उवाच ।
यथा त्वं सृंजयस्यास्य तथा मे त्वं नृपात्मजे ।
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥
अम्बोवाच ।
भगवञ्शरणं त्वाद्य प्रपन्नाऽस्मि महाव्रतम् ।
शोकपङ्कार्णवान्मग्नं घोरादुद्धर मां विभो ॥
भीष्म उवाच ।
तस्याश्च दृष्ट्वा रूपं च वपुश्चाभिनवं पुनः ।
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥
किमियं वक्ष्यतीत्येवं विममर्श भृगूद्वहः ।
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता ।
सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥
तच्छुत्वा जामदग्र्यस्तु राजपुत्र्या वचस्तदा ।
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥
राम उवाच ।
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि ।
करिष्यति वचो मह्यं श्रुत्वा च स नराधिपः ॥
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः ।
धक्ष्याम्यहं रणे भद्रे सामात्यं शस्त्रतेजसा ॥
अथवा ते मतिस्तत्र राजपुत्रि न वर्तते ।
यावत्साल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥
अम्बोवाच ।
विसर्जिताऽहं भीष्मेण श्रुत्वैव भृगुनन्दन ।
साल्वराजगतं भावं मम पूर्वं मनीषितम् ॥
सौभराजमुपेत्याहमवोचं दुर्वचं वचः ।
न च मां प्रत्यगृह्णात्स चारित्र्यपरिशङ्कितः ॥
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन ।
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥
मम तु व्यसनस्यास्य भीष्मो मूलं महाव्रतः ।
येनाहं वशमानीता समत्क्षिप्य बलात्तदा ॥
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् ।
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥
स हि लुब्धश्च नीचश्च जितकाशी च भार्गव ।
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयाऽनघ ॥
एष मे ह्रियमाणाया भारतेन तदा विभो ।
अभवद्धृदि संकल्पो घातयेदं महाव्रतम् ॥
तस्मात्कामं ममाद्येमं राम संपादयानघ ।
जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥

5-177-1 द्वयोः सकाशादिति शेषः ॥ 5-177-2 नियोक्तव्यस्तव पाणिणार्थमिति शेषः 5-177-6 विधानं प्रतीकारम् ॥ 5-177-23 परमं तव विवक्षितं यत्तन्मेऽवश्यं वक्तव्यमित्यर्थः ॥