अध्यायः 185

भीष्मे रामंप्रति प्रस्वापनास्त्रं प्रयोक्तुकामे नारदेन तन्निषेधनम् ॥ 1 ॥ भीष्मेण दिव्यपुरुषवचनाच्च प्रस्वापनास्त्रप्रतिसंसंहारे रामेण स्वस्य पराजितत्वोक्तिः ॥ 2 ॥ नारदादिवचनाद्युद्धोपरमः ॥ 3 ॥

भीष्म उवाच ।
ततो हलहलाशब्दो दिवि राजन्महानभूत् ।
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ॥
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने ।
प्रस्वापं मां प्रयुज्जानं नारदो वाकयमब्रवीत् ॥
एते वियति करव्य दिवि देवगणाः स्थिताः ।
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ॥
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते ।
तस्यवमानं कौरव्य मास्म कार्षीः कथञ्चन ॥
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः ।
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ॥
यथाऽऽह भरतश्रेष्ठ नारदस्तत्तथा कुरु ।
एतद्धि परमं श्रेयो लोकानां भरतर्षभ ॥
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं महत् ।
ब्रह्मास्त्रं दीपयाञ्चक्रे तस्मिन्युधि यथाविधि ॥
ततो रामो हृषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै ।
जितोऽस्मि भीष्मेण सुमन्दबुद्धि- रित्येव वाक्यं सहसा व्यमुञ्चत् ॥
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं चास्य मान्यम् ।
ते तत्र चैनं परिवार्य तस्थु- रूचुश्चैनं सान्त्वपूर्वं तदनीम् ॥
पितर ऊचुः ।
मा स्मैवं साहसं तात पुनः कार्षीः कथञ्चन ।
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ॥
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन ।
स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम् ॥
इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम् ।
शस्त्रधारणमत्युग्रं तच्चाकार्यं कृतं त्वया ॥
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे ।
विमर्दस्ते महाबाहो व्यपयाहि रणादितः ॥
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् ।
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ॥
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः ।
निवर्तस्व रणादस्मादिति चैव प्रसादितः ॥
रामेण सह मायोत्सीर्गुरुणेति पुनः पुनः ।
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ॥
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे ।
वयं तु गुरवस्तुभ्यं तस्मात्त्वां वारयामहे ॥
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक ।
गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः ॥
कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव ।
अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली ॥
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः । सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।
भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा ॥
भीष्म उवाच ।
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् । नाहं युधि निवर्तेयमिति मे व्रतमाहितम् ।
न निवर्तितपूर्वश्च कदाचिद्रणमूर्धनि ॥
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः ।
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन ॥
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा ।
नारदेनैव सहिताः समागम्येदमब्रुवन् ॥
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमम् ।
इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया ॥
मम व्रतमिदं लोके नाहं युद्धात्कदाचन ।
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः ॥
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् ।
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ॥
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप ।
भागीरथी च मे माता रणमध्यं प्रपेदिरे ॥
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः ।
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ॥
समेत्य सहिता भूयः समरे भृगुनन्दनम् ।
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव ॥
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम ।
अवध्यो वै त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ॥
एवं ब्रुवन्तस्ते सर्वे प्रतिरुद्ध्य रणाजिरम् ।
न्यासयाञ्चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ॥
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः ।
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ॥
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् ।
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ॥
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै ।
लोकानां च हितं कुर्वन्नहमप्याददे वचः ॥
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः ।
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः ॥
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः ।
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ॥
मम चैव समक्षं तां कन्यामाहूय भार्गवः ।
उक्तवान्दीनया वाचा मध्ये तेषां महात्मनाम् ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥