अध्यायः 192

स्थूणेन शिखण्डिन्यै पुनःपुंस्त्वप्रत्यर्पणप्रतिज्ञापनपूर्वकं तदीयस्त्रीत्वस्वीकारेण स्वीयपुंस्त्वसमर्पणम् ॥ 1 ॥ दाशार्णकेन उपायात् शिखण्डिनः पुंस्त्वं निर्धार्य स्वपुरगमनम् ॥ 2 ॥ अत्रान्तरे स्थूणगृहमागतेन कुबेरेण तंप्रति स्त्रीत्वधारणस्य शिखण्डिमरणावधिकत्वरूपशापदानम् ॥ 3 ॥ पुंस्त्वप्रत्यर्पणाय गतेन शिखण्डिना स्थूणात्तद्वृत्तान्तमुपलभ्य हर्षात्स्वगृहागमनम् ॥ 4 ॥ इति भीष्मेण दुर्योधनंप्रति शिखण्डिना सह स्वेन युद्धाकरणे कारणाभिधानम् ॥ 5 ॥

भीष्म उवाच ।
शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ ।
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ॥
भवितव्यं तथा तद्धि मम दुःखाय कौरव ।
भद्रे कामं करिष्यामि समयं तु निबोध मे ॥
`स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयिताऽस्मि ते' किंचित्कालं तु ते दास्ये पुल्लिङ्गं स्वमिदं तव ।
आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे ॥
प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहंगमः ।
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलम् ॥
स्त्रीलिङ्गं धारयिष्यामि तवेदं पार्थिवात्मजे ।
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ॥
शिखण्ड्युवाच ।
प्रतिदास्यामि भगवन्पुलिङ्गं तव सुव्रत ।
किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥
प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि ।
कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि ॥
भीष्म उवाच ।
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप ।
अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः ॥
स्त्रीलिङ्गं धारयामास स्थूणो यक्षोऽथ भारत ।
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ॥
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव ।
विवेश नगरं हृष्टः पितरं च समासदत् ॥
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य तत् । `मातुश्च रहिते राजन्प्रसादं यक्षजं तदा ।'
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् ॥
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ।
ततः संप्रेषयामास दशार्णाधिपतेर्नृपः ॥
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ।
अथ दाशार्णको राजा सहसाभ्यागमत्तदा ॥
पाञ्चालराजं द्रुपदं दुःखशोकसमन्वितः ।
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः ॥
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् ।
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ॥
यन्मे कन्यां स्वकन्यार्थे वृतवानसि दुर्मते ।
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥
एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम ।
दूतः प्रयातो नगरं दाशार्णनृपचोदितः ॥
ततः आसादयामास पुरोधा द्रुपदं पुरे ।
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ॥
प्रापयामास राजेन्द्र सह तेन शिखण्डिना ।
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह ॥
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ।
यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः ॥
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ।
देहि युद्धं नरपते ममाद्य रणमूर्धनि ॥
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् ।
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः ॥
दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा ।
अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ॥
यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः ।
अस्योत्तरं प्रतिवचो दूतो राज्ञे वदिष्यति ॥
ततः संप्रेषयामास द्रुपदोऽपि महात्मने ।
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ॥
तमागम्य तु राजानं दशार्णाधिपतिं तदा ।
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ॥
आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम ।
मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत ॥
ततः स राजा द्रुपदस्य श्रुत्वा । विमर्शयुक्तो युवतीर्वरिष्ठाः ।
संप्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्रीपुमान्वेति वेत्तुम् ॥
ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् ।
शिखण्डिनं पुरुषं कौरवेन्द्र दाशार्णराजाय महानुभावम् ॥
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ ।
संबन्धिना समागम्य हृष्टो वासमुवास ह ॥
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः । हस्तिनोऽश्वांश्च गाश्चैव दासीर्बहुशतास्तथा । 5-192031c पूजितश्च प्रतिययौ निर्भर्त्स्य तनयां किल ॥
विनीतकिल्विषे प्रीते हेमवर्मणि पार्थिवे ।
प्रतियाते दशार्णे तु हृष्टरूपा शिखण्डिनी ॥
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः ।
लोकयात्रां प्रकुर्वाणः स्थूणस्यागान्निवेशनम् ॥
स नद्गृहस्योपरि वतमान आलोकयामास धनाधिगोप्ता ।
स्थूणस्य यक्षस्य विवेश वेश्म स्वलंकृतं माल्यगुणैर्विचित्रैः ॥
लाचैश्च गन्धैश्च तथा वितानै- रभ्यर्चितं धृनधृपितं च ।
ध्वजैः पताकाभिरलंकृतं च भक्ष्यान्नपेयामिपदत्तमोदम् ॥
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम् ।
मणिरत्नसुवर्णानां मालाभिः परिपूरितम् ॥
नानाकुसूमगन्धाढ्यं सिक्तसंमृष्टशोभितम् ।
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥
स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः ।
नोपसर्पति मां चैव कस्मादद्य स मन्दधीः ॥
यस्माज्जानन्स मन्दात्मा मामसौ नोपसर्पति ।
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥
यक्षा ऊचुः ।
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी ।
तस्या निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ॥
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूता तिष्ठते गृहे ।
नोपसर्पति तेनासौ सव्रीडः स्त्रीसरूपवान् ॥
एतस्मात्कारणाद्राजन्स्थूणो न त्वाऽद्य सर्पति ।
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ॥
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् ।
कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः ॥
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते ।
स्त्रीमरूपो महाराज तस्थौ व्रीडासमन्वितः ॥
तं शशापाथ संक्रुद्धो धनदः कुरूनन्दन ।
एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः ॥
ततोऽब्रवीद्यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान् ।
शिखण्डिनो लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्त्वया कृतम् ।
तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा ॥
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल ।
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः ।
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥
शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते ।
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ॥
इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः ।
प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः ॥
स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा ।
समये चागमूत्तूर्णं शिखण्डी तं क्षपाचरम् ॥
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति ।
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् ।
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥
भीष्म उवाच ।
शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज ।
गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ॥
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् ।
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ॥
भीष्म उवाच ।
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत ।
प्रत्याजगाम नगरं हर्वेण महतावृतः ॥
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः ।
द्विजातीन्देवताश्चैव चैत्यानथ चतुष्पथान् ॥
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना ।
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥
शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव ।
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः ।
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् ।
जडान्धबधिराकारा ये मुक्ता द्रपदे मया ॥
एवमेष महाराज स्त्री पुमान्द्रुपदात्मजः ।
स संभूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः ॥
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता ।
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ॥
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् ।
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् ।
स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि ॥
न मुञ्चेयमहं बाणमिति कौरवनन्दन ।
न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः ।
ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥
यदि भीष्मः स्त्रियं हन्यात्सन्तः कुर्युर्विगर्हणम् ।
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ॥
वैशंपायन उवाच ।
एतच्छ्रुत्वा तु करव्यो राजा दुर्योधनस्तदा ।
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥

5-192-4 विहंगमः आकाशगामी ॥ 5-192-8 अभिसंदेहे इति झo पाठः । संदेहे लिङ्गे सम्यग् दिह्यते उपचीयेते रतिकाले प्रथेते इति व्युत्पत्तेरिति तत्रार्धः ॥ 5-192-24 उत्तरं उत्कृष्टतरम् ॥ 5-192-27 आगमः परीक्षा ॥ 5-192-61 चतुष्पादं ग्रहणधरणप्रयोगप्रातीकारैश्चतुर्भिः पादैर्युक्तम् ॥ 5-192-