अध्यायः 194
युधिष्ठिरेण चारमुखात् भीष्मादिभिः स्वस्वशक्तिप्रकाशनं निशम्य अर्जुनंप्रति तच्छक्तिनिवेदनचोदने तत्कथनम् ॥ 1 ॥
वैशंपायन उवाच । 
					एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे ।
						आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् ॥
						युधिष्ठिर उवाच । 
					धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम ।
						ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् ॥
					दुर्योधनः किलापृच्छदापगेयं महाव्रतम् ।
						केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो ॥
					मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः ।
						तावता चापि कालेन द्रोणोपि प्रतिजज्ञिवान् ॥
					गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् ।
						द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् ॥
					तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि ।
						पञ्चभिर्दिवसैर्हन्तुं ससैन्यं प्रतिजज्ञिवान् ॥
					तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः ।
						कालेन कियता शत्रून्क्षपयेरिति फाल्गुन ॥
					एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः ।
						वासुदेवं समीक्ष्येदं वचनं प्रत्यभाषत ॥
					सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः ।
						असंशयं महाराज हन्युरेव न संशयः ॥
					अपैतु ते मनस्तापो यथा सत्यं ब्रवीम्यहम् ।
						हन्यामेकरथेनैव वासुदेवसहायवान् ॥
					सामरानपि लोकांस्त्रीन्सर्वान्स्थावरजङ्गमान् ।
						भूतं भव्यं भविष्यं च निमेषादिति मे मतिः ॥
					`यावदिच्छेद्धरिरयं तावदस्ति न चान्यथा ।'
							यत्तद्धोरं पशुपतिः प्रादादस्त्रं महन्मम ।
						
						कैराते द्वन्द्वयुद्धे तु तदिदं मयि वर्तते ॥
						
					यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् ।
						प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते ॥
					तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः ।
						न च द्रोणसुतो राजन्कुत एव तु सूतजः ॥
					न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् ।
						आर्जवेनैव युद्धेन विजेष्यामो वयं परान् ॥
					तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव ।
						सर्वे दिव्यास्त्रविद्वांसः सर्वे युद्धाभिकाङ्क्षिणः ॥
					वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः ।
						निहन्युः समरे सेनां देवानामपि पाण्डव ॥
					शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः ।
						भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ ॥
					विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि ।
						शङ्खश्चैव महाबाहुर्हैडिम्बश्च महाबलः ॥
					पुत्रोऽस्याञ्जनपर्वा तु महाबलपराक्रमः ।
						शैनेयश्च महाबाहुः सहायो रणकेविदः ॥
					अभिमन्युश्च बलवान्द्रौपद्याः पञ्च चात्मजाः ।
						स्वयं चापि समर्थोसि त्रेलोक्योत्सादनेपि च ॥
					क्रोधाद्यं पुरुषं पश्येस्तथा शक्रसमद्युते ।
						स क्षिप्रं नभवेद्व्यक्तमिति त्वां वेद्मि कौरव ॥ ॥
					इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यनपर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥
5-194-2 व्युषितां निशां प्रभातकाले ॥