अध्यायः 016

बृहस्पतिना ब्राह्ममन्त्रसंवर्धितेनाग्निना पद्मनालस्येन्द्रं दृष्ट्वा बृहस्पतये तन्निवेदनम् ॥ 1 ॥ बृहस्पतिना तत्र गत्वा इन्द्रे स्तूयमाने कुबेरादीनां तत्रागमनम् ॥ 2 ॥ इन्द्रेण नहुषजये साहाय्यायाग्नेर्भागदानपूर्वकं कुबेरादीनां तत्ताद्दिगाधिपत्येऽभिषेचनम् ॥ 3 ॥

बृहस्पतिरुवाच ।
त्वमग्रे सर्वदेवानां मुखं त्वमसि हव्यवाट् ।
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत् ॥
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः ।
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम् ।
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः ।
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरैः ॥
सृष्ट्वा लोकांस्त्रीमिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूति- स्त्वमेवाग्रे भवसि पुनः प्रतिष्ठा ॥
त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः ।
वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ॥
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत् ।
न तेऽस्त्यविदितं किचित्रिषु लोकेषु पावक ॥
स्वयोर्नि भजते सर्वो विशस्वापोऽविशङ्कितः ।
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥
एवं स्तुतो हव्यवाट् स भगवान्कविरुत्तमः । बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम् ।
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते ॥
शल्य उवाच ।
प्रविष्यापस्ततो वह्निः ससमुद्राः सपल्वलाः ।
आससाद सरस्तच्च गूढो यत्र शतक्रतुः ॥
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ ।
अपश्यत्स तु देवेन्द्रं बिसमध्यगतं तदा ॥
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः ।
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः ।
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥
महाऽसुरो हतः शक्र नमुचिर्दारुणस्त्वया ।
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय ।
उत्तिष्ठ शक्र संपश्य देवर्षीश्च समागतान् ॥
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो । अपां फेनं समासाद्य विष्णुतेजोतिबृंहितम् ।
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥
त्वं सर्वभूतेषु शरण्य ईड्य- स्त्वया समं विद्यते नेह भूतम् ।
त्वया धार्यन्ते सर्वभूतानि शक्र त्वं देवानां महिमानं चकर्थ ॥
पाहि सर्वांश्च लोकांश्च महेन्द्र बलमाप्नुहि ।
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥
स्वं चैव वपुरास्थाय बभूव स बलान्वितः ।
अब्रवीच्च गुरं देवो बृहस्पतिमवस्थितम् ॥
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः ।
वृत्रश्च सुमहाकायो यो वै लोकाननाशयत् ॥
बृहस्पतिरुवाच ।
मानुषो नहुषो राजा देवर्षिगणतेजसा ।
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥
इन्द्र उवाच ।
कथं च नहुषो राज्यं देवानां प्राप दुर्लभम् । तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ।
` तत्सर्वं कथय त्वं मे यथेन्द्रत्वमुपेयिवान् ॥
बृहस्पतिरुवाच ।
त्वयि प्रनष्टे देवेश विश्वं प्रव्यथितं जगत् ।
परस्परभयोद्विग्नं बभूवार्तमराजकम् ॥
ततो देवैः सगन्धर्वैः सर्षिसङ्घैः सपावकैः ।
मानुषो नहुषो राजा देवराज्येऽभिषेचितः ॥
देवा भीताः शक्रमकामयन्त त्वया त्यक्तं महदैन्द्रं पदं तत् ।
तदा देवाः पितरोऽथर्षयश्च गन्धर्वमुख्याश्च समेत्य सर्वे ॥
गत्वाऽब्रुवन्नहुषं तत्र शक्र त्वं नो राजा भव भुवनस्य गोप्ता ।
तानब्रवीन्नहुषो नास्मि शक्त आप्यायध्वं तपसा तेजसा माम् ॥
एवमुक्तैर्वर्द्धितश्चापि देवै राजाऽभवन्नहुषो घोरवीर्यः ।
त्रैलोक्ये च प्राप्य राज्यं महर्षी- न्कृत्वा वाहान्याति लोकान्दुरात्मा ॥
तेजोहरं दृष्टिविषं सुघोरं मा त्वं पश्येर्नहुषं वै कदाचित् ।
देवाश्च सर्वे नहुषं भृशार्ता न पश्यन्ते गूढरूपाश्चरन्तः ॥
शल्य उवाच ।
एवं वदत्यङ्गिरसां वरिष्ठे बृहस्पतौ लोकपालः कुबेरः ।
वैवस्वतश्चैव यमः पुराणो दवेश्च सोमो वरुणश्चाजगाम ॥
ते वै समागम्य महेन्द्रमूचु- र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः ।
दिष्ट्या च त्वां कुशलिनमक्षतं च पश्यामो वै निहतारिं च शक्र ॥
स तान्यथावच्च हि लोकपाला- न्समेत्स वै प्रीतमना महेन्द्रः ।
उवाच चैनान्प्रतिभाष्य शक्रः संचोदयिष्यन्नहुषस्यान्तरेण ॥
राजा देवानां नहुषो घोररूप- स्तत्र साह्यं दीयतां मे भवद्भिः ।
ते चाब्रुवन्नहुषो घोररूपो दृष्टीविषस्तस्य बिभीम ईश ॥
त्वं चेद्राजानं नहुषं पराजये- स्ततो वयं भागमर्हाम शक्र ।
इन्द्रोऽब्रवीद्भवतु भवानपां पति- र्यमः कुबेरश्च मयाभिषेकम् ॥
संप्राप्नुवन्त्वद्य सहैव दैवतै रिपुं जयाम तं नहुषं घोरदृष्टिम् ।
ततः शक्रं ज्वलनोऽप्याह भाग प्रयच्छ मह्यं तव साह्यं करिष्ये । तमाह शक्रो भविताऽग्ने तवापि चेन्द्राग्न्योर्वै भाग एको महाक्रतौ ॥
शल्य उवाच ।
एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः ।
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा ।
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तथा ॥ ॥

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि षोडशोऽध्यायः ॥

5-16-6 हेतयः ज्वालाः ॥ 5-16-31 नहुषस्यान्तरेण अन्तरं भेदः । बुद्धिभेदार्थमित्यर्थः ॥